________________
॥ अथ द्वितीयस्तरङ्गः ॥ अथास्य परमरहस्यभूतस्य धर्मस्य ग्रहणविधिमाह
जुग्गेहिं जुग्गपासे सो पुण जुग्गो गहिजए विहिणा । संपुण्णसुहफलो जं, एव चिअ अन्नहा इयरं१द्वारगाथा व्याख्या-जुग्गेहिन्ति, स पुनर्धर्मो योग्यैर्गृह्यते योग्यानामेव दीयते इत्यर्थः वहिर्मलप्रक्षालनं जलमपि हि योग्य एव पात्रे निधीयते, नत्वयोग्ये तत्रानर्थफलत्वात्. किंपुनर्जन्मसहस्र संचितान्तर्मलतृष्णातापन्यापत्तिविच्छेदहेतुर्धर्मः तदुक्तम् - आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥ तथा जुग्गपासेत्ति योग्याना - मेव पार्श्वे गृह्यते, नत्वयोग्यानां जलवत् यदुक्तं - चारित्रेण विहीनः, श्रुतवानपि नोपजीव्यते सद्भिः, शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥ १ ॥ सोपुणजुग्गोत्ति स पुनर्धर्मो योग्यएव गृह्यते नत्वयोग्यो हिंसादिकलुषः, परिखोदकवत् तथा गहिजए विहिणत्ति गृह्यते विधिनैव नत्वविधिना न खलु जलमपि प्रतिकूले कलशे संक्रामति विधिश्चात्र विनयबहुमानादिः उक्तं च- सीहासणे निसन्नं सोवागं सेणिओ नरवारिन्दो । विज्जं मग्गइपयओ इहसाहु जणस्स सुअविणआ ॥ १ ॥ श्री श्रेणिक संबन्धश्चायं, राजगृहनगरे श्रीश्रेणिकः क्ष्मापतिः, चेलणाराज्ञी, अन्यदा मेदिनीशक्रश्चेल्लणाया एक स्तम्भधॐ वलगृहनिवासमनोरथम जिज्ञपदभय कुमारम् ततोऽभयमन्त्री तादृक्स्तम्भार्थमटव्यां भ्रमन् स्तम्भोचितं सुलक्षणं तरुमेकमद्राक्षीत्, नायमनधिष्ठायक श्छायातरुरित्यौत्पत्तिक्या धियाऽवधार्य तदधिष्ठायकमाराद्धुमुपवासत्रयमतनोत्. तुष्ट
3000
Jain Education International
For Private & Personal Use Only
99909669965909566999999खिसिटि
ainelibrary.org