________________
Jain Education
दायिनः आरात्रिकरक्षाकण्डकादिभिरभिनन्द्यमाना नृपावासाङ्गणादिषु स्वैरं सुखं खेलन्ति, महागजीभूताश्चापि यावज्जीवं तथैव राजादीनां मनोविश्रामभूमयस्तथैव मिष्टाहारादिपोषरक्षापूजादिसुखान्यनुभवन्ति, एवं च मुखे परिणामे व | सरसामेव चारिं चरन्ति । तथा केचित् पुरुषोत्तमा भाग्यातिशयाद् बाल्येऽपि यतीभूता श्रीवज्रस्वामिपादलिप्तगुरुश्रीहे - माचार्यादिवद् भाग्यविद्यातिशयादिमत्त्वेन सकलश्रीस र्देवैरपि वा परिपूज्यमानाः परिपाल्यमानाश्च समये आचार्यादिमहापदवीं प्राप्तास्तदधिक पूजामहिममहावादजयादिभिरष्टधा प्रभावनादिभिः प्रवचनमुद्योतयन्ति, यावज्जीवं चानुत्तरसुरव राधिकं सुखमनुभवन्ति । तथा केचित् श्रीभरतसगरमहापद्म सम्प्रतिकुमारपालादिवज्जैननृपा अभयकुमारचित्रप्रधान| चाणक्याम्म्र भटउदयनमन्त्रिवाग्भटवसुपालपृथ्वीधरादयो महामात्यादयः श्रीधन्यशालिभद्रसुदर्शन श्रेष्ठिसौवर्णिक भीमचतुः| प्रासादीकारकव्यवहारिकालादयो महेभ्याश्च पूर्वपुण्यानुभावतः शुद्धन्याय्यैरेवोपायैः प्रवर्धमानोपार्जितविशुद्धसमृद्धिसमृद्धाः | श्रीगुरुवचन विज्ञातश्रीजैन नवतत्त्वी सदुपनिषदः सम्यग्ज्ञानदर्शनदेशविरत्यादिगुणरत्नरत्नाकरा महातीर्थयात्राश्रीजिनप्रा| सादकारणप्रौढसाधर्मिक वात्सल्य सप्तक्षेत्रीधनवापदीन सीदत्साधर्मिकादिसमुद्धरणसर्वप्रकार श्रीजिनपूजाश्रीगुरुचरणपरिचर्यासत्पात्र दानशीलतपोभावनाषडिधावश्यकपौषधादिकर्मभिः स्वं जन्म पवित्रयन्ति, न्याय्यकालादिषु धर्मार्थाबाधयासर्वकामगुणोपेतानि पञ्चप्रकारविषयसुखानि भुञ्जते । आयुःपर्याप्तौ विधिना पण्डितमरणेन भवान्तरे स्वर्गापवर्गसुखसम्पदं चासादयन्ति, जिनगणधरादिपदवीमप्याप्नुवन्ति, तेन सातिशया महायतयो गृहिणो वा इहलोकेऽपि धर्मसुखमयत्वात् धर्मार्थकामसुखमयत्वाद्वा मुखे सरसां परलोकेऽपि धर्मार्थकाममोक्षहेतुत्वात् परिणामेऽपि च सरसां चारिं
For Private & Personal Use Only
jainelibrary.org