________________
मुनिसुन्दर तथा पिशुनादयश्चैत्यमुनिसुश्रावकादीनामप्यपरेषामपि च शिष्टजनानां पैशून्यकरणभापनानीतिद्रव्यग्रहणराजदण्डपात-1 उपदेशर. सू०वि० नादिक्रूरकर्मभिः, रङ्कश्रेष्ठिजयसिंहदेवप्राग्भववणिज्याकारकादिवत् । केचिद् वणिग्विप्रादयोऽपि हठाभिमानादिभिर्लेच्छपर- तरंग ६
चक्रानयनचैत्यादिधर्मस्थानदेशनगरारिभङ्गकरणकारणादिरौद्राध्यवसायानुष्ठानादिभिः, केचित्तु वणिगादयोऽतिलोभाद्यभिभूताः पञ्चदशकर्मादानकृष्याद्यारम्भपरवञ्चनाहेतुकूटतुलामानादिकुव्यवहारादिभिश्च धर्मवाह्याः परलोकसुखपराङ्मुखा ऐहिकविषयादिसुखगृघ्नवः सर्वथा गुरूपदेशादिनिरपेक्षा यथा तथा द्रव्याण्यर्जयित्वा तैर्विषयादिसुखविलासाम् भुञ्जाना भवान्तरे दुर्गतिदुःखार्णवपातिनो मुखे सरसां परिणामे विरसां च वृत्तिं चरन्ति । तेषां पुनर्नरभवशुद्धधर्मादिदुर्लभतांश नानानरकतिर्यगाद्यनन्तभवभ्रमणदुखानन्त्यादि च विमृश्यैषाप्याजीविका त्याज्या मेधाविभिरिति । तथा वत्सकवत् केचित् सम्यग्गुरुदत्तजिनवचनामृतपानापहतभवतृष्णातयः पारत्रिकसुखानन्यावाप्तिं तथैव पश्यन्त इहलोकतुच्छसुखनिरपेक्षा यत्यादयो भिक्षालब्धप्रान्तरूक्षशुद्धाहारादिना जीवन्तः संयममनुपालयन्तः श्राद्धादयो वा केचिद्दारिद्याद्यापद्यपि बह्वारम्भरादिकर्माण्यकुर्वन्तः शुद्धैरेव व्यवहारादिभिर्यत्तद्रव्याजनैर्यथा तथा निर्विशेषाहारादिभोगोपभोगैजीवन्तः। षड्विधावश्यकशक्त्यनुसारितपोदानपौषधादिभिः स्वनरभवादि कृतार्थयन्ते, नन्दिषेणप्राग्भवविप्रसम्यक्त्वकौमुदीप्रसिद्धमुनिशिलोछलब्धसक्तुपिण्डदातृविप्रादिवत् , इह भवे बाह्यलोके तादृक्समृद्ध्यायभावे, बुधास्तामेवाचरन्तीति तत्त्वोपदेशक
अथ च यथा गजाः शिशुत्वे कलभतया प्रसिद्धा नृपादिभिः परिगृहीता महागजीभवनाशया तैर्मिष्टाहारादिभिर्निरन्तरं ॥१५७ ॥ जापरिपोष्यमाणाः सर्वोपद्रवेभ्यो यत्नेन रक्ष्यमाणाः स्युः, स्वर्णमणिरत्नाद्यलङ्कारै_जमानाः स्वभावसुभगतया सर्वमनानन्द
6033000
இடுகாடுகNைE
ॐॐॐ
Jain Education inlads.
For Private & Personel Use Only
A
j ainelibrary.org