SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ @@@@@@@@@@@@@@@@@ सार्द्रयवसधान्यगोदुग्धादिभिः। वत्सस्याकुट्या (य) पुट्यादिकार्याभावात् शुष्कतृणादि दीयते नवा। ततो वत्सो दूनस्तृणाद्यचरन मात्रा तत्कारणं पृष्टः प्राह-मयि पश्यत्येडकः सरसाहारमाहरति, अहं च शुष्कतृणादीनि लभे नवेत्यादि । साप्यवदत् "मुखे सरसापि परिणामे विरसेयं चारियां चरत्येडकः, तदुक्तम्-आउरचिण्हाणि एयाणि, जाई चरइ|| नंदिओ। सुक्कतणेहिं लाढाहि, एयं दीहाउलक्खणं ॥१॥ इत्यादि । ततः किञ्चिदुपशान्तमन्युस्तृणादि चरति। अन्यदा प्राप्त तस्मिन्नत्सवे प्राघूर्णकभोजनाय मांस्पाकाचैडको बूत्कुर्वन् न्यधायि क्षत्रियेण ।तं च तथा दृष्ट्वा तर्णकः स्वस्यापि तथा सम्भावनया भीतः सायं मातुः स्तन्यमपिबंस्तथा पृष्टः एडकस्वरूपं स्वस्य भयाकुलतां चाख्यत् । सापि जगौ "शुष्कतृणचारिणस्ते नास्ति भयम् , मुखे विरसापि परिणामे अकाण्डमरणाद्यहेतुत्वात्सरसेयं चारिामचरस्त्वमित्यादि । ततश्चोपशान्तभयः क्रमादुद्यौवनो महेशाय परिकल्पितोऽङ्कितश्च महाशण्डीभूतो गोकुले स्वैरं सुखं विलसति स्म । एवमेडकवत् || केचित्कुनृपादयः परदेशविध्वंसादिभिर्निर्दयं मनुष्यादिजीवघातगोत्रपितृपुत्रबान्धवादिकदर्थनादिभिश्छलेन द्रव्याद्यर्थ शिष्टजनदण्डभरणादिमहारम्भसैन्यादिपरिग्रहादिभिस्तथा कुनियोगिनो महारम्भादिमयान् नृपव्यापारान् लोकदण्डनायुद्धधाट्यादिरूपान् सल्लोकद्रव्यग्रहसर्वनगरपामादिजनताकृष्याद्यारम्भप्रवर्तनमनुष्यपश्वाद्यवरोधजलपानभोजनाद्यन्त-13 रायकरणवन्धताडनलञ्चाग्रहणाद्यन्यायारम्भादिभिः, तथा राजपुरोहितज्योतिर्विन्नैमित्तिकादयो मिथ्यादृशः क्रूराः सर्वारम्भप्रवृत्तिनिमित्तोपदेशमुहूर्तदानादिभिर्नृपवैद्याद्याश्च महामांसाद्यौषध्याद्यारम्भकारणैः, तथा क्षुद्रचौरनृपादयो धाव्यवस्कन्ददाननगरमामनृपशुसर्वजनताधाराशाविश्रामपदधान्यक्षेत्रखलादिज्वालननिरपराधमनुष्यपश्वादिघातघोरपापकर्मभिः, Jain Educa d lines For Private & Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy