SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Jain Education I 9000000 60000 विकुर्व्य मत्स्यगन्धां मात्सिकपुत्रीं सिषेवे । कृष्णद्वैपायनोऽपि धृतराष्ट्रादिमातुरम्बा १ ऽम्बिका २ ऽम्बालिका ३ नाम्नीर्वधूरकामयत, धृतराष्ट्रपाण्डुविदुरांश्चाजीजनत् । क्रोधाद् द्वारकां चाधाक्षीद् दुर्वासऋषिरुर्वशीलुब्धो विष्णुलक्ष्म्यौ रथे न्ययोजयत् । इत्यादि कियद्वक्तुं शक्यम् । अत्राधिकारे शैवमुखवज्रसूचीद्विजवदनचपेटासन्देहसमुच्चयधर्मपरीक्षादयो ग्रन्था विलोक्याः । अभव्यतिर्यग्मनुष्या अपि केचिद् द्रव्यतो देशविरतिभाजोऽप्यविरतिपङ्क्तिमेवेच्छन्ति, कामसुखाद्यर्थ| मेव तैर्देश सर्वविरत्योरपि प्रतिपालनात् । नैरयिका अपि क्रोधाध्माततया वैक्रियशक्तत्या विकुर्वितप्रहरणवज्रतुण्ड कीटा| दिभिः परस्परं महावेदनामुत्पादयन्तोऽविरतपङ्कावेव । एवं चराचरजीवैर्जगत्रयव्यापिनीयं पङ्किः १ । अथ द्वितीया पङ्क्तिः मिथ्यात्वविरतानां तस्यां च श्रेणिकादयश्चक्रवर्तिवासुदेवप्रतिवासुदेवादयश्च कियन्तो मनुष्या असङ्ख्याततमो भागो देवानां नैरयिकाणां तिरश्चां चानन्ततमः । एवं पूर्वपङ्केरनन्ततमभागजीवरूपेयं द्वितीया पङ्क्तिः, इयं च पङ्क्तिः सम्यक्त्वाविवक्षायामविरतपङ्क्तिमध्य एव गण्यते । तथा च तिस्र एव पङ्कयो गणनीयाः स्युः २ ॥ | तस्या अप्यसङ्ख्याततमभागविरताविरताख्य देश विरतजीवमयी तृतीया पङ्किः । तस्यां हि कियन्तो मनुष्या गर्भजपञ्चेन्द्रियतिरश्चां चासङ्ख्याततमो भागोऽसङ्ख्यातास्तिर्यञ्चश्च मरुभूतिजीवगजादिवज्जातिस्मृत्यादिना प्राप्तश्राद्धधर्माणः, नेतरे, सर्वेऽपि मिलिताः “ संमत्तदेसविरया, पलिअस्स असंखभागमित्ताय” इतिवचनात् पल्योपमासङ्ख्येयभागसमयराशिप्र - माणा लभ्यन्ते ३ । For Private & Personal Use Only 3000 v jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy