SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Education I 905306006 9000000 नरकेषु क्षेप्ता, प्रत्यवतारं रणादिमहारम्भराज्यादिपरिग्रहग्र हिलो, नित्यं नानाप्रकारैः प्रत्यवतारं कायकेलिपरः, षोडशसहस्रगोपीलाभात् कृतकृष्णावतारः, अतिकामविह्वलत्वाद् रुक्षीमपि सेवितपूर्वी मायाकङ्कणवशात् स्त्रीरूपी राज्ञोऽन्तःपुरे कियदिनानि भोगान् भुक्त्वा पुत्रमजीजनत् इत्यादिकामविडम्बना कियती उच्यते ? इत्यसावप्यविरतपङ्कावेव धुरीणतां धत्ते । एवं ब्रह्मापि जगत्सृष्टिसंहारकर्ता सर्वासत्यादत्तपरिग्रहमूलं सावित्र्यां कामं सेवमानः "प्रजापतिः स्वां दुहितरमकामयत" इत्यादिवेदादिप्रसिद्धास्मरपारतन्त्र्यः शर्वेणोर्वशी कामनापराधकृतशिरश्छेदः, पार्वतीपरिणायनविधिकरणे पार्वती| रूपनिरीक्षणजातकामोद्रेकच्युतवीर्योत्पन्नाशीतिसहस्रवालिखिल्यादिऋषीणां स्वाङ्गष्ठाक्रमणेन कुब्जीभूतानां दत्तसूर्य| रथवासोऽविरतपङ्किं नातिक्रामति । एतेषां च शास्त्रे कामवर्णनाविडम्बना विविधाः श्रूयन्ते । तथाहि — रइकेलि हिअनि अंसणकर किसलयरुद्धनयणजुअलस्स । रुद्दस्स तइअनयणं, पबइपरिचुंविअं जयइ ॥ १ ॥ पनमथ पनयपकुप्पिद| गोली चलनग्गलग्गपडिबिंबं । तससु नखतप्पणेसुं, एकातसतनुथलं लुहं ॥ २॥ प्रणयकुपितां दृष्ट्वा देवीं ससम्भ्रमविस्मितस्त्रिभु | वनगुरुभीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतख्यक्षस्येतद्विलक्ष्यमवस्थितम् ॥ ३ ॥ सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याच से, धत्से यश्च नदीं विलज्जशिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्धने यदि हरेः कस्माद्विषं भक्षितं, मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ १ ॥ | इत्यलङ्कारचूडामणौ इत्यादि । राधा पुनातु जगदच्युतदत्तदृष्टि - मन्थानकं विदधती दधिरिक्तभाण्डे । तस्था स्तनस्तबकलोलविलोचनालि—- र्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ १ ॥ विवरीअरए लच्छी, बंभं दहूण नाहिकमलत्थं । For Private & Personal Use Only 0000000000 jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy