________________
00000
मुनिसुन्दर सू०वि० ॥१५ ॥
उपदेशर० तरंग ५
ஒருருருருருருருருரு5
बहु १ स्वल्प २ स्वल्पतर ३ स्वल्पतम ४ जीवमय्यः । तत्राद्याया अविरतानां पङ्क्तमहत्त्वमेवम् एकेन्द्रिया वनस्पत्यादयः, एकस्यैव स्पर्शनेन्द्रियस्य सद्भावात्तेन शेषेन्द्रियाणां सज्ञाभिश्च षड्रजीवविराधनादविरता अविरतपलावुपविशन्ति । तेषु हि सूक्ष्मेषु बादरेष्वपि वाऽविरता एवोत्पद्यन्ते । अविरतपरिणामव्यपगमश्च सज्ञिपञ्चेन्द्रियाणामेव विरतिप्रतिपत्तौ भवति। ततश्च सर्वेऽप्येकेन्द्रियाः पञ्चभ्योऽप्याश्रवेभ्योऽविरतत्वात्तजनितं कर्मबन्धं लभन्ते विरताश्च नोच्यन्ते । यथा हि सुप्तप्रमत्तमूच्छितादयो विरतिपरिणामाभावाच्छक्तिचेतनाद्यभावेन हिंसादीन्यकुर्वन्तोऽपि एतेभ्यो विरता नोच्यन्ते, मूकादयश्चासत्यमवदन्तोऽपि सत्यवादिनः, कुणिपादयश्चादत्तमगृह्णन्तोऽपि अदत्तपरिहारिणः, कृत्रिमाकृत्रिमनपुंसकाः पशुनरा मैथुनमसेवमाना अपि ब्रह्मचारिणः, पशुद्रमकादयश्च विशेषपरिग्रहाभावेऽपि 'वत्थगंधमलंकारे'ति वचनान्निर्ग्रन्थाश्च न भवन्ति । क्षान्तं न क्षमयेत्यादिवचनात्फलानि च न लभन्ते । एवमेकेन्द्रिया अपि अविरता एव, सम्यग्दर्शनपरिणामाभावात् , 'नेगिंदिसु सासाणो' इत्यागमाभिप्रायेण सास्वादनस्याप्यभावान्मिथ्यात्विन एव च । एवमेव द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसम्मूच्छिमपञ्चेन्द्रियादिष्वपि अविरतत्वं सास्वादनस्याप्युत्पत्तावेव पडावलिकाकालं यावत्सद्भावान्मिथ्यात्वं च ज्ञेयम् । अथ एकेन्द्रियेषु किञ्चिद्विशिष्य हिंसाद्यास्रवा दयन्ते। तथाहि-वृक्षादयः स्वस्वमाहारं जलनीलादिकं सचित्तं गृह्णन्ति इति तेषां जलवातविराधना स्पष्टा । “जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छिओ अग्गी । तेऊ वाउसहगओ, तसा य पच्चक्खया चेव ॥१॥ इति वचनाद्वनस्पत्यादीनामप्याहारग्रहणमात्रेणापि सूक्ष्मवृत्त्या विराधना, बादरवृत्त्या तु केचिद्धृक्षा बदर्यादयः कदल्यादीन् मरुदेवादिजीवकदल्यादिवद् विध्यन्ति, स्वमूलक्षारकटुरसादिभिः
00000000000000000000
॥१५॥
Jain Education HARI
For Private
Personal Use Only