________________
मुनिसुन्दर सू० वि०
॥ १४९ ॥
Jain Education In
भयमिहलोकभयम् १ | विजातीयान्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम् २ | आदानं धनं तदर्थं चौरादिभ्यो भयमादानभयम् ३ । अकस्माद्वाह्यनिमित्तनिरपेक्षं भयमकस्माद्भयम् ४ । आजीविकाभयं निर्धनस्य दुर्भिक्षादौ ५ । मरणभयं प्रतीतम् ६ । अकीर्तिभयमश्लोकभयम् ७ । एतानि च नित्यमरतिकराणि मृतिप्रदान्यपि भवन्ति, ततश्चैवं विघ्नबहुले नरभवे धर्म एव सारः स्वर्गापवर्गदायकत्वात्सेव्यश्चेति तत्त्वमिति । यदुक्तम् — तूरह धम्मं काउं, मा हु पमायं कयावि कुवित्था । बहुविग्घो हु मुदुत्तो, मा अवरहं पडिच्छाह ॥ १ ॥ अस्माभिरप्युक्तम् - धम्मं काउं तूरह, जगभक्खणलोलुएण कालेण । सुरनरनारयतिरिया, एए सज्जीकया कवला ॥ १ ॥ आलम्बनं तव लवादिकुठारघाता - रिइन्दन्ति जीविततरुं नहि यावदात्मन् ! । तावद्यतस्व परिणामहिताय तस्मिं - रिछन्ने हि कः क्व च कथं भवितास्यतन्त्रः ? ॥ २ ॥ सप्तभीत्यभिभवेऽष्टविप्लवा - निष्टयोगगद दुष्कुटुम्बकैः । स्याद् ध्रुवं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ॥ ३ ॥ | इत्यध्यात्मकल्पद्रुमे ।
इत्यवेत्य नरदेहमसारं, तेन साध्यमखिलं च सुधर्मम् । द्राग्यतध्वमखिले हितदेऽस्मिन्, यद्भवारिविजयश्रियमे ॥ १ ॥
॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे प्रथमेऽंशे नरभवानित्यताधर्म सारतोपदेशनामा चतुर्थस्तरङ्गः ॥
For Private & Personal Use Only
30300
उपदेशर तरंग ४
॥ १४९ ॥
jainelibrary.org