________________
Jain Education &
900000000
900000000
स्वर्गापवर्गादिसुखानि वित
|रादर्दुरादिजीर्णश्रेष्ठिबलदेवर्षिभक्तमृगादिश्रीमरुदेवाश्रीभरतपृथ्वीचन्द्रगुणसागरकूर्मापुत्रादिवत् | रति । पृथ्वीचन्द्रगुणसागरसम्बन्धो यथा - अयोध्यायां हरिसिंहो नृपः पद्मावती राज्ञी, सुतः पृथ्वीचन्द्रः, साधुदर्शनाज्जातजातिस्मृतिः, भवान्निर्विद्यते स्म, ततो राज्ञा षोडश कन्या बलात्परिणायितः, ता अपि प्रत्यबूबुधत् । नृपोऽचिन्तयत्अहो ! एतस्य वन्धनमवन्धनमभूत् । ततो राज्ये निवेशितः । अन्यदाssस्थानस्थे पृथ्वीचन्द्रकुमारे गजपुरात्सुधनो वणिक् तत्रागात् । कुमारेण पृष्टम् - किञ्चिदाश्चर्य वद । सुधनः प्रोचे – हस्तिनागपुरे रत्नसञ्चयोऽस्ति महाधनः । सुमङ्गला प्रिया तस्य सुतस्तु गुणसागरः ॥ १ ॥ तस्याष्टौ कन्यका दत्ता, धनिभिः कैश्चिदन्यदा । सोऽगमत्क्रीडयोद्याने, दृष्टस्तेन मुनिस्ततः ॥ २ ॥ जातिस्मरणमुत्पन्नं, तस्य दर्शनतो मुनेः । गृहे गत्वाऽऽह पितरौ प्रत्रजिष्याम्यहं ध्रुवम् ॥ ३॥ आग्रहेण तथा प्रोक्तः, पित्राथ गुणसागरः । मेने तद्वचनं तेन, पाणिग्रहणहेतवे ॥ ४ ॥ विवाह्येता गमिष्यामि, व्रतायैवं ममाग्रहः । | पित्रापि ज्ञापिताः कन्यास्ताभिरुक्तमिदं वचः ॥ ५ ॥ यद्यस्माकं पतिस्तात !, व्रताभिग्रहसाग्रहः । नियमेन समं तेन, ग्रही ध्यामो वयं त्रतम् ॥ ६ ॥ परिणीतास्ततश्चाष्टौ कन्यास्तेनाथ साग्रहाः । यूपादिमङ्गलं दण्डपाशः कौसुम्भकाम्बरम् ॥ ७ ॥ शरावसम्पुटाघातो, विवेकस्योपमर्दनम् । करमेलः कष्टसदृग, ग्रन्थिर्ग्रन्थिस्तु कर्मणाम् ॥ ८ ॥ समयः स मृतेर्नूनं, चतुरी भवचत्वरम् । चतुर्गतिभ्रमिप्रायाश्चतुर्मङ्गल फेरकाः ॥ ९ ॥ अहो ! विडम्बनाः सर्वा, मुग्धलोको न बुध्यते । चतुर्थमङ्गले सोऽथ, कन्यानां मुखमण्डनम् ॥ १० ॥ विलोक्य भ्रष्टमात्रं तदहो संसारसारता ! । यद्वस्तु दृश्यते रम्यं, तदरम्यं क्षणादपि ॥ ११ ॥ अत्रानित्यता । इतिचिन्तयतस्तस्य, केवलज्ञानमुज्ज्वलम् । उत्पेदे श्रेष्ठिपुत्रस्य, पत्नीभिः सममेव हि ॥ १२ ॥
For Private & Personal Use Only
jainelibrary.org