________________
मुनिसुन्दर सू० वि०
॥१४७॥
*SOOOOOOOOOOOOOOO
मातुः पितुरपि ज्ञानं, तदा जातं तु भावतः। ततस्तेषां व्रतं चाभून्मया पृष्टोऽथ सागरः॥ १३ ॥ एतत्प्रभो ! ममाश्चर्य, यत्ते उपदेशर ज्ञानसमागमः । मुनिः प्राह किमाश्चर्य, कोशलायां व्रज द्रुतम् ॥ १४ ॥ पृथ्वीचन्द्रकुमारस्याख्यातया वार्तयानया । यत्तेतरंग ३ हि भविता तत्र, तन्ममाश्चर्यतोऽद्भुतम् ॥ १५ ॥ तत्कुमार ! तवाभ्यणे, कौतुकं द्रष्टुमागतः । पृथ्वीचन्द्र इति श्रुत्वा, चिन्तयामास चेतसि ॥ १६ ॥ अयं श्रेष्ठिसुतो धन्यो, वन्द्यो मे गुणसागरः। मध्येचतुरिकं ज्ञानं, विश्वाश्चर्यविधायकम् ॥ १७॥ एवं चिन्तयतस्तस्य, पृथ्वीचन्द्राभिधस्य हि । बभूव केवलज्ञानं, पितृभ्यां सहितस्य च ॥ १८॥ तदा षोडशपत्नीनां, जज्ञे केवलमुज्ज्वलम् । इन्द्राद्यागमनं तत्र, महिमा केवलश्रियः ॥ १९ ॥ तदा पप्रच्छ सुधनो, भगवन् ! कथ्यतां का मम । कथं तच्छवणादेव, युष्माकं ज्ञानमद्भुतम् ? ॥२०॥ स प्राह प्राग्भवेऽभूवं, चम्पापुर्यां महीपतिः । कुसुमायुधनामाहं, पुत्रो मे मकरध्वजः॥२१॥ न्यस्य तत्र सुते राज्यं, मया दः महाव्रतम् । पुत्रेणापि प्रमादेन, रहितं विहितं व्रतम् ॥ २२ ॥ उभावपि हि सर्वार्थ-सुरौ भूतौ महर्द्धिकौ । ततश्च्युत्वाहमुत्पन्नः, पृथ्वीचन्द्राभिधो भुवि ॥ २३ ॥2 द्वितीयोऽपि समुत्पन्नः, पुरे गजपुराभिधे । समभूत्केवली योऽयं, श्रेष्ठिसूर्गुणसागरः ॥ २४ ॥ इति भावनायां पृथ्वीचन्द्रगुणचन्द्रयोः कथानकम् । इति जिनोक्तसर्वपुण्यप्रकाराणां नरभवसम्भविनां महायरत्नचिन्तामणित्वं नरभवस्य रत्नाक-10 रत्वं चोपचर्यते । एतेषु कानिचित् पुण्यानि तिर्यश्वपि सम्भवन्ति, परं तेषामत्यल्पसम्भवत्वात्तादृग्मनोबलाभावेन सहसाराधिकसुरत्वमोक्षहेतुत्वाभावाच्च सामान्यचन्दनगोशीर्षचन्दनान्येव दृष्टान्तः । एवं रत्नाकरतुल्यं मनुष्यभवं प्राप्य ये
200000000000000000000000
Jain Education
O
For Private
Personal Use Only
w.jainelibrary.org