SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१४७॥ *SOOOOOOOOOOOOOOO मातुः पितुरपि ज्ञानं, तदा जातं तु भावतः। ततस्तेषां व्रतं चाभून्मया पृष्टोऽथ सागरः॥ १३ ॥ एतत्प्रभो ! ममाश्चर्य, यत्ते उपदेशर ज्ञानसमागमः । मुनिः प्राह किमाश्चर्य, कोशलायां व्रज द्रुतम् ॥ १४ ॥ पृथ्वीचन्द्रकुमारस्याख्यातया वार्तयानया । यत्तेतरंग ३ हि भविता तत्र, तन्ममाश्चर्यतोऽद्भुतम् ॥ १५ ॥ तत्कुमार ! तवाभ्यणे, कौतुकं द्रष्टुमागतः । पृथ्वीचन्द्र इति श्रुत्वा, चिन्तयामास चेतसि ॥ १६ ॥ अयं श्रेष्ठिसुतो धन्यो, वन्द्यो मे गुणसागरः। मध्येचतुरिकं ज्ञानं, विश्वाश्चर्यविधायकम् ॥ १७॥ एवं चिन्तयतस्तस्य, पृथ्वीचन्द्राभिधस्य हि । बभूव केवलज्ञानं, पितृभ्यां सहितस्य च ॥ १८॥ तदा षोडशपत्नीनां, जज्ञे केवलमुज्ज्वलम् । इन्द्राद्यागमनं तत्र, महिमा केवलश्रियः ॥ १९ ॥ तदा पप्रच्छ सुधनो, भगवन् ! कथ्यतां का मम । कथं तच्छवणादेव, युष्माकं ज्ञानमद्भुतम् ? ॥२०॥ स प्राह प्राग्भवेऽभूवं, चम्पापुर्यां महीपतिः । कुसुमायुधनामाहं, पुत्रो मे मकरध्वजः॥२१॥ न्यस्य तत्र सुते राज्यं, मया दः महाव्रतम् । पुत्रेणापि प्रमादेन, रहितं विहितं व्रतम् ॥ २२ ॥ उभावपि हि सर्वार्थ-सुरौ भूतौ महर्द्धिकौ । ततश्च्युत्वाहमुत्पन्नः, पृथ्वीचन्द्राभिधो भुवि ॥ २३ ॥2 द्वितीयोऽपि समुत्पन्नः, पुरे गजपुराभिधे । समभूत्केवली योऽयं, श्रेष्ठिसूर्गुणसागरः ॥ २४ ॥ इति भावनायां पृथ्वीचन्द्रगुणचन्द्रयोः कथानकम् । इति जिनोक्तसर्वपुण्यप्रकाराणां नरभवसम्भविनां महायरत्नचिन्तामणित्वं नरभवस्य रत्नाक-10 रत्वं चोपचर्यते । एतेषु कानिचित् पुण्यानि तिर्यश्वपि सम्भवन्ति, परं तेषामत्यल्पसम्भवत्वात्तादृग्मनोबलाभावेन सहसाराधिकसुरत्वमोक्षहेतुत्वाभावाच्च सामान्यचन्दनगोशीर्षचन्दनान्येव दृष्टान्तः । एवं रत्नाकरतुल्यं मनुष्यभवं प्राप्य ये 200000000000000000000000 Jain Education O For Private Personal Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy