________________
COCOCONGOOாகனம்
धर्माभिज्ञा अपि द्विधा, प्रमत्ता अप्रमत्ताश्च । ततो ये गुरूपदेशादिना प्रतिबुद्धा अपि प्रमादपरवशतया सम्यक्त्वदेशविरत्यादिसर्वविरतिं वा न प्रतिपन्नास्ते प्रमादेनागृहीतरत्ना इव, ये च तं धर्म प्रतिपन्ना अपि “मज्ज १ विसय २ कसाया ३, निहा४विगहा य५पंचमी भणिया" इति पञ्च(भिः)प्रमादैः “आलस्स १ मोह २ ऽवन्ना ३, थंभा ४ कोहा ५पमाय ६ किविणत्ता ७ । भय ८ सोगा ९ अन्नाणा १० वक्खेव ११ कुऊहला १२ रमणा १३” इति । काष्टिका निदानबद्धतया वा तापसथेष्ठिब्रह्मदत्तचक्रिवासुदेवप्रतिवासुदेवकूलवालकश्रमणकण्डरीककोणिकादिवन्महारम्भपरिग्रहादिभाजः सम्यग्धर्मक्रियासु नोद्यतन्ते । ते प्रमादेन हारितरत्ना इव च सप्तमनरकपृथ्वीमपि यावद् दुःखानि लभन्ते । स्वीकृताप्ताररत्ला इवाल्पभावकृतधर्माणश्च व्यन्तरकिल्बिषिकादिष्वप्युत्पद्यन्ते, तत्राल्पसुखभोगादि चाप्नुवन्ति । अप्रमत्ताश्च निरतिचारसार-1 ज्ञानादिरत्नत्रयाराधकास्तारतम्येन वैमानिकौवेयकानुत्तरसुरेषु समुत्पद्यन्ते, आसन्न सिद्धिकाश्च । केचित्तु शिवमपि लभन्ते, | प्राप्तचिन्तामणिरत्ना इव सर्वक्लेशातीता एव भवन्तीत्यतो नरभवे प्रमत्ताप्रमत्तयोबहुतमो विशेषः, यतो मनुष्यभवे सर्वधर्मकर्माणि महायरत्नचिन्तामणिरत्नमायाणि । यदुक्तम्-'सगलवझाणं छठें मुखं सामाइया' इत्यादि । इयं गाथा पुरो|| व्याख्यास्यत इति ।
एवं तिसृष्वपि गतिवधिकृत्य धर्मदुष्प्रापतां नरभवं समवाप्य विज्ञाः !॥
धर्मे यतध्वमनिशं विशदे यतो द्राग, द्वैधां जयश्रियमवाप्य शिवं भवध्वे ॥१॥ ॥ इति तपाश्रीमनिसुन्दरसूरिविरचिते श्रीउपदेश० मध्या० प्रथमेऽशे गतिचतुष्टयधर्मस्वरूपविचारनामा द्वितीयस्तरङ्गः ॥
0000000000
Jain Education
For Private
Personel Use Only
IM.jainelibrary.org