________________
॥ १४४ ॥
इन्द्रस्याष्टौ अग्रमहिष्य इन्द्राण्यः । एकैका चाग्रमहिषी बहून्यपि रूपाणि कुरुते । यदुक्तं श्रीदेवेन्द्रनरकेन्द्रप्रकीर्णकसूत्रवृत्तौ — सक्करस देवरण्णो देवीओ अठ्ठ हुंति नायबा । इक्किक्कावि य इत्तो, विउवए सोलससहस्से ॥ १ ॥ शक्रोऽपि प्रवीचाराभिप्रायो यदा स्यात्तदा तावन्ति रूपाणि तद्भोगयोग्यं लक्षयोजनं विमानं च विकुर्बति, सर्वदेवीसम्बन्ध्युत्तर - ॐ वैक्रेयाग्रं चेदम् । “एगं च सयसहस्सं, अठ्ठावीसं च भवे सहस्साई । सक्कस्स देवरण्णो देवीणं हुंति ओहेणं ॥१॥" एवमि न्द्रस्यापि प्रवीचारेच्छायामुत्तरवै क्रिय सर्वाग्रं ज्ञेयम् । एतावद्भिश्च रूपैर्नित्यं विषयासक्त एवेन्द्रः कैश्चिद्रूपैर्जिन पूजादीन्यपि कुरुतेऽतो देवभवेष्वपि स्वल्पस्यैव पुण्यार्जनस्य सम्भवान्नरभवं प्राप्य सर्वशक्त्या यतितव्यमित्युपदेशरहस्यम् २ |
मुनिसुन्दर सू० वि०
Jain Education Int
500036
तथा द्वौ च पुमांसौ अज्ञानप्रिययक्षेणेव “तिरियाउ गूढहियओ, सहो ससल्लो" इत्यादिप्रकारैर्वद्धतिर्यगायुः कर्मणा प्राग्वर्णितचन्दना करतुल्यायां तिर्यग्गतौ क्षिप्तौ । तत्र च ये धर्मानभिज्ञा हिंसादिक्रूरकर्मरताः सिंहसर्पादयस्तैर्नात्राधिकारः, ये तु जातिस्मृत्या तीर्थकरादिदेशनया वा प्रतिबुद्धा धर्मे यतन्ते तेष्वपि केचित्प्रमत्ता अप्रमत्ताश्च तत्र च प्रमत्ताः स्वल्पं सम्यदत्वप्रतिपत्तिदेशविरत्यादि कुर्वाणा युग्मिअल्पर्द्धिसुरादिभोगानर्जयन्ति । अप्रमत्ताश्च शुद्धसम्यक्त्व देशविरत्यादि पालयन्तो मरुभूतिजीवगजादिवदुत्कृष्टतः सहस्रारकल्प महर्द्धिकसुरादिभोगानाप्नुवन्ति । तेनात्र सुरगतिमाश्रित्य प्रमत्ताप्रमत्तयोर्वहुतरो विशेषो न तु बहुत मस्तीर्थकर चत्रयादिपद सहस्राराधिकदेव सुखाद्यनर्जनात्, उपदेशरहस्यं च प्राग्वत् ३ । तथा द्वौ च ज्ञानप्रिययक्षेण "पयईइ तणुकसाओ, सीलसंजमविणो । मज्झिमगुणेहिं मणुअस्स, आउअं बंधई जीवो ॥ ४ ॥" इत्यादिविधिवद्धमनुष्यायुः कर्मणा प्रागुक्तरलाकरसमायां नृगतौ प्राप्येते । तत्र च ये धर्मानभिज्ञास्तैर्नाधिकारः,
For Private & Personal Use Only
999900
196650000000
उपदेशर० तरंग २
॥ १४४ ॥
ainelibrary.org