SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Education 1000 6) मेव देवगुर्वादिध्यानं कुरुते, अप्रमत्तश्च क्षायिकसम्यग्दृष्ट्यादिः किञ्चिदधिकं तदुपार्जितं फलमपि मनुष्यभवे किञ्चिदेवाधिकं लभते इत्यणुरेव सुखलाभो मिथः प्रमत्ताप्रमत्तयोर्विशेषश्च । अतो नरकभवे धर्मदुर्लभतां विभाव्य नरभवे एव धर्मः सर्वोद्यमेन साध्यत इत्युपदेशतत्त्वम् १ | तथा मांस पुण्यप्रिययक्षेणेव "देवाउयं निबंध, सरागतव संजमो । अणुवयधशे दंतो, सत्तो बालतबंमिय ॥२॥ इत्यादिप्रकारैर्बद्धसुरायुःकर्मणा वर्णितफलाकरगिरितुल्यायां सुरगतौ क्षितौ । तत्रापि ये मिथ्यादृशः सङ्गमादितुल्या अभव्या द्वैपायनादयो दूरभव्या वा कुलदेवता बुद्धिदेवाचारधीमहेन्द्रादिनियोगादिभिः स्वविमानजिनपूजाजिनजन्म महोत्सवादिशुभकर्माणि कुर्वाणा अप्यपरिणतसम्यग्दर्शनादिधर्माणस्तैर्नात्राधिकारः, ये तु पूर्वभवाभ्यासाज्जिनाद्युपदेशादिना वा परिणतसम्यक्त्वा दिजिनधर्माणस्तेष्वपि नित्यविषयप्रमादाद्यासक्ताः स्वल्पमेव स्वल्पभावादिना वा जिनपूजादिधर्मं कुर्वते ते नरभवे स्वल्पभोगादिफलकर्मार्जयन्तीति, फलपोट्टिलार्जकवत् । ये च दृढभावा विषयप्रमादाद्यासक्ता अपि सर्वोद्यमे नोद्यच्छन्ति ते फलशकटार्जकवदधिकमधिकं नरभवे भोगसुखाद्यर्जयन्ति । इति प्रमत्ताप्रमत्तयोर्वहु विशेषो न तु बहुतरो देवगत्याद्यनर्जनात् । ननु स्वल्पयापि जिनादिपूजया मनुष्या देवादिभोगाई बहुपुण्यमर्जयन्ति, स्थविरादिदृष्टान्तैस्तथा श्रवणात्, देवास्तु महत्यापि चिरकृतयापि किं न ? येन फलाकर मात्र दृष्टान्तस्तद्भवस्य न तु रत्नाकरदृष्टान्तः ! उच्यते| देवा नित्यबहुविधविषयप्रसक्तबहुरूपाः केनचिद्रूपेण जिनपूजादि कुर्वाणा अपि बहुस्थानगतचित्ता इत्येकजीवाश्रितवि पयसेवादिकर्ममिश्रितत्वात् तत्कृतजिनपूजादिपुण्यकर्मणो न मनुष्यकृतजिनपूजादिकर्मवद्बहुफलत्वम् । तथा च श्रूयते - For Private & Personal Use Only 993950966500e www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy