SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000) अपराभ्यां द्वाभ्यामज्ञानप्रियनामा तृतीयो यक्षोऽज्ञानादेवार्कपुष्पशमीमञ्जर्यादिपूजादिनाराद्धस्तुष्टस्तथैव मार्गितश्च ।। तेन बह्वसद्वृक्षाकुलेऽल्पचन्दनदुमे स्थपुटे बहुदुःखे चन्दनाकरे गिरौ मुमुचाते । तत्राप्येकः प्रमत्तो विषमगिरिभ्रमणभग्नः शिरोवाह्यानि स्वल्पान्येव दुर्लभानि चन्दनकाष्ठानि लेभे। अन्यस्त्वप्रमत्ततया गिरिभ्रमणादिकष्टैरभग्नः सर्वशक्त्योद्यच्छन् बहूनि साराणि गोशीर्षचन्दनादीनि शकटवाह्यानि चन्दनदारूणि प्रापत् । तथैव पुरे प्राप्तौ चन्दनविक्रये चैकस्त्रिचतुरादीनि द्रम्मशतानि लेभे । द्वितीयस्तु परोलक्षानपि द्रम्मान् । आद्यः स्वल्पनीव्या व्यवहरन् स्वल्पमेवार्जयति स्मान्यस्तु बानीव्या सवलव्यवहारैः कोटीमप्युपार्जयति स्म । एवं प्रमत्ताप्रमत्तयोर्द्धनलाभे सुखभोगादीनाश्रित्य मिथोबहुतरो विशेषः ३। ___ अथ चावशिष्टाभ्यां द्वाभ्यां ज्ञानप्रियनामा यक्षो मध्यमपुष्पपूजादिभिराराद्धस्तथैव तुष्टो मार्गितश्च । तेन मध्यमसममालासङ्कलेऽनतिरम्ये क्रीडास्थानादिसुभगे धरित्रीनिगूढैर्बहुबहुतरादिप्रयासलभ्यर्बहुविधैर्जघन्यतो द्रम्मादिमूल्यैरुकर्षतः सर्वकामितप्रदचिन्तामण्यादिरूपै रलैरञ्चिते रत्नाकरगिरावमुक्षाताम् । तत्राप्येकः प्रमत्तः प्रयासभीरुः क्रीडाद्यासक्तस्तपोजपादिकरत्नग्रहणविधिमकुर्वन् स्वल्पान्येवासाराणि च रत्नानि लेभे, प्रमादेन कान्यपि वा नाग्रहीत्, कानिचिसाराण्यपि वा लब्धानि प्रमादादहारयत् । अपरस्त्वप्रमत्तः क्रीडाद्यनासक्तो यथाविधि तपोजपादि कुर्वन् विधिनागृहून बहनि साराणि चिन्तामणिसीमान्यपि रत्नान्यलब्ध। तथैव पुरे प्राप्तौ, तत्रैकोऽसाररत्नाप्ताल्पद्रव्यरल्पसुखभागभूत, पुनर्द्रव्यार्जनार्थ क्लेशानपि सहते च, अथवा प्रमादादगृहीतरत्नो यद्वा प्रमादाद् हारितरत्नः सुतरां दुःखीबभूव, स्वप्रमादं | ww.jainelibrary.org en d For Private & Personal Use Only an
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy