________________
उपदेशर० तरंग २
मुनिसुन्दर
कपाश्चतसृषु प्रतोलिषु पापप्रिय १ पुण्यप्रिय २ अज्ञानप्रिय ३ ज्ञानप्रिय ४ नामानो निजनिजभवनेषु वसन्ति । ते च सप्र- सू० वि० त्यया आराधनाप्रकारानुसारेण स्वान् शुभाशुभानाकरान् ददते । तत्र चाप्टौ पुरुषाः कर्मजीविनो वसन्ति । तत्र च
1 द्वाभ्यामेकः पापाप्रियनामाद्यो यक्षः पशुवधादिभिराराधितस्तुष्टो मार्गितश्च यथा-भो देव ! क्वाप्याकरे मुश्च पुनरानय ॥१४२॥
च । सोऽपि स्वायत्ते कठिनातिशीतोष्णतीक्ष्णशिलाजालस्थपुटे मर्माविक्ककशतरकर्करोत्तरदुस्सञ्चरे च्छायातरुजलफलादिविरहिते निष्पत्रादिसर्वाङ्गीणतीक्ष्णकण्टकविकटनिरन्तरशाखोटकततिदुग्गमे तृणाकरे दुर्गे गिरौ तौ मुमोच । तत्र | चैकः प्रमत्तो विषमे गिरौ तृणान्याददे, परं बहुप्रयासभीरुत्वादू भारकादिमानानि स्वल्पान्येव । अपरश्च सप्ताष्टांस्तान् | सप्ताष्टदिननिर्वाहकरानिति मूल्यतोऽप्यणुरेव लाभः, प्रमत्ताप्रमत्तयोमिथोऽप्यल्प एव विशेषः १॥ ___ अथापराभ्यां पुरुषाभ्यां द्वाभ्यां पुण्यप्रियनामा द्वितीयो यक्षो नानाकुसुमादिपवित्रपूजातपोजपादिभिराराधितः, KI तुष्टश्च मार्गितः प्राग्वदाकरमोचनम् । तेन च स्वायत्ते रमणीयतमे स्वर्णस्फटिकादिमये आयकदलीराजादनजम्बूजम्बी
रदाडिमतालतमालादिसदापुष्पफलाभिरामरम्यतरवरश्रेणिसुभगे नानासरोवाप्यादिक्रीडास्थानमनोहरे फलाकरे गिरिवरे ससामग्रीके व्यमुच्येताम् । तत्र चैकः प्रमत्तो नानाक्रीडास्थानविलोकनखेलनपुष्पफलाद्याघ्राणस्वादनशीतलतरुच्छायास्वा पादिप्रमादगमितबहुसमयः स्वल्पान्येव फलान्यमीमिलत् । अपरस्त्वप्रमत्तः क्रीडावयम्येऽपि बहुलाभं पश्यन् शकटवा
रासदा ह्यानि फलान्यमेलयत् । प्रापतुश्च ती द्वितीयेऽहनि स्वपुरं यक्षनियोगात्, फलविक्रयेण चाद्यो द्रम्मशतादि लेभे, परस्तु जापरःसहस्रान् सारफलाधिक्ये तविसहस्राद्यपि, एवं प्रमत्ताप्रमत्तयोमिथो बहुविशेषः २।
00000000000000000000000
06मोरपिसे
aamaamram% 3
॥१४२॥
Jain Education
For Private & Personal Use Only
IMow.jainelibrary.org