SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर विफलोकसते इति तेनैकेनापि कलुषितो धर्मः सर्वविधिरहितोऽवगन्तव्य इति । अत्र च यथार्हमपरेऽपि दृष्टान्ता न्यस- |उपदेशर० सू० वि०नीया इति तृतीयौषधदृष्टान्तभावना ३। .. तरंग ८ । तथा तुरीयौषधवत्सर्वेण विधिना पूर्णो धर्मः केवलं गुणं वाञ्छितसकलश्रेयप्राप्त्यादिलक्षणं प्रणयति यथा विधिना-10 ॥१३८॥ राद्धं एकदिनचारित्रमपि श्रीपुण्डरीकर्षेः सर्वार्थसिद्धिसुखसाम्राज्यप्रदमभूत् । श्रेणिकनृपस्य देवपूजा, सङ्गमस्य दानं, श्रीकुमारपालनृपादीनांश्राद्धधर्मः, नागकेतोः श्रीपर्युषणातपश्चेति अन्यान्यपि निदर्शनानि यथार्ह वाच्यानि। किञ्च-एकोऽपि कश्चिद्विधिस्तीव्रशुभपरिणामप्रयुक्तः सर्वानपि विधीन् समर्थयतीति तेनैकेनापि विधिना धर्मस्य सर्वविधिपरिपूर्णत्वं ज्ञेयं, यथा देवपालप्रभृतीनां जिनपूजाधर्मः । स हि तेषां गोपालत्वादिना जिनपूजाविधेरश्रुतपूर्वित्वेनासंयोगाच्च धौतवस्त्रादिविधिविकलोऽपि "देवमनर्चयित्वा न भोक्ष्ये' इति दायंकलितहृदयभावशुद्धिरूपविधिना प्रबलीकृतः सद्योऽनर्गलराज्यादिसुखसमृद्धिप्रापणेन तदनूत्तरोत्तरसुखसम्पत्समर्पणेन च सम्पूर्णविधिनाराद्ध इव पम्फुलीति स्मेति । विधेर्विशेषादिति नैकधार्हद्धम्र्मेऽपि निश्चित्य फले विशेषम् । ऊरीकुरुध्वं विधिशुद्धमेनं, वुवूर्षवो मोहजयश्रियं चेत् ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे चतुर्थेऽशेऽष्टमस्तरङ्गः ॥ 100000000000000000000000 CUCTருருருருருருருருருருON ॥१२८॥ Jain Education For Private Personel Use Only Linelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy