________________
அCOOOOOOOOOOOOOOOGGE
सङ्कोचनं प्राप स इति । धर्मजुगुप्साधर्मफलसन्देहतत्प्रमाणकरणादयो हि अविधयः स्वल्पकषायत्वेन विहितत्वाच्च ते स्वल्पाः । अविधियुक्तविधिहीनयोश्चैकार्थत्वं ज्ञेयम् । ततस्तै रामाद्यैर्यत्स्वल्पेन विधिना हीनो धर्म ऋषिनेत्रकण्टककर्षणरूपः कृतस्तेन धर्मेण तेषां क्रमात् पशुत्वराज्यमितत्वाङ्गसङ्कोचरूपो दोषः स्वल्पो व्यधायि, गुणस्तु बहुर्यतः करिणोऽप्यवधिज्ञानश्रीसम्यक्त्वमूलद्वादशवतश्राद्धधर्माद्यनुत्तरशुभफलाप्तिः, द्वितीयस्यापि राज्यानन्तरं चारित्रेण केवलज्ञानाद्यवाप्तिः, तृतीयस्य तु जिनप्रतिमादर्शनाद्गार्हस्थ्येऽपि केवलज्ञानाद्यवाप्तिरिति भावितः प्रथमौषधदृष्टान्तः ।
तथा द्वितीयौषधवद्वहुना विधिना हीनो धर्मः स्वल्पं गुणं बहुं च दोषं प्रथयति । यथा सनिदानो धर्मः केशवानां नवानामपि त्रिखण्डसाम्राज्यप्राप्तिरूपं स्वल्पगुणं करोति, तदनन्तरमवश्यनरकदुःखावाप्तिलक्षणं दोषं पुनर्बहुमेवं ब्रह्म
दत्तचक्र्यादयोऽपि दृष्टान्ता यथार्हमत्र स्वयं वाच्याः । निदानाद्यविधेश्च बहुत्वं बहुतरलोभादिकषायजन्यत्वाज्ज्ञेयम् २ ॥ ला तथा सर्वेण विधिना हीनो धर्मस्तृतीयौषधवत्केवलं दोषं करोति, यथा सुसढस्य तपः यथा वा मरीचेधर्मो जातिम
देन “कविला इत्थंपि इहयंपी"ति दुर्वाक्येन च दूषितः । तथा चागमः-दुब्भासिएण इक्केण, मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडिं, सागरसिरिनामधिजाणं ॥१॥ तम्मूलं संसारो, नीआगोअंच कासि तिवइंमि"। इति, तस्यानन्तरभवे प्राप्तायाः स्वर्गतेरपि मिथ्यात्वमलिनत्वेन दोषरूपत्वमेव ज्ञेयम् । यद्वा श्रीप्रसन्नचन्द्रराजर्षेर्दुर्मुखवचनाद्रौद्रध्यानपरस्य यथा कायोत्सर्गः श्रीवीरजिनेन सप्तमनरकपृथ्वीगमनहेतुरुपदिष्टः । वितथाचरणं ह्यविधिस्तेन कायोत्सर्गादिषु रौद्रध्यानादेरविधित्वं स्फुटमेवेति । किञ्च, एकोऽपि कश्चिदविधिस्तीन कषायपरिणामप्रयुक्तः शेषान् सर्वानपि विधीन
Jan Education
onal
For Private
Personal Use Only
Mw.jainelibrary.org