SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमस्तरङ्गः॥ पुनरौषधदृष्टान्तेनैव प्रकारान्तरेण धर्मचतुर्भङ्गीमाह दोस १ गुण २ मप्पहिअं ३, गुणं ४ च केवल जहोसहं कुणह। तह मिच्छजन्न १ दाणाइ २ अविहि ३ विहि ४ जुत्तजिणधम्मो ॥१॥ व्याख्या-औषधं चतुर्द्धा, तत्रैक केवलं दोषं करोति यथा पैत्तिकज्वरातस्य प्रलपतस्त्रिदोषज्वरभ्रान्त्या भिषजा प्रय-| तोऽष्टादशवाथः १। अपरं गुणमल्पं करोति पारिशेष्याद्दोषं बहुं च, यथा कफपित्तज्वरिणः सितागच्यौषधम् । तद्धि। तस्य पित्तोपशमरूपं गुणं स्वल्पं करोति, दोषं पुनर्बहुं श्लेष्मवर्धनात्, श्लेष्मा च दुष्प्रतीकार इति २ । अन्यत्पुनरौषधं । गुणमधिकं साधयति अर्थाद्दोष पुनः स्वल्पं यथा कफपित्तज्वरिण एव क्षुद्रादिक्वाथः । स हि किञ्चित्पित्तमुपचिनोति परं का स्वल्पो दोषः, पित्तस्य सुप्रतीकारत्वात्, श्लेष्माणं तु शोषयति, स पुनर्बहुगुणः, श्लेष्मणो दुष्प्रतीकारत्वादिति । किञ्च-12 नौषधं पनः केवलं गुणं प्रगुणयति यथा पैत्तिकज्वरस्य चन्दनादिक्वाथः ४ । एवं दृष्टान्तं स्पष्टयित्वा दाष्टान्तिकमाचष्टे तह मिच्छत्ति-तथा तेन प्रकारेण, मिच्छत्ति मिथ्यात्वसम्बन्धीनि यज्ञाश्च दानानि च तद्रूपी धर्मों अविधिना विधिना च यो जिनधर्मश्चेति चतुर्विधो धर्मो ज्ञेयः। तत्र यज्ञरूपो धर्मः केवलं दोषं पुष्यति पञ्चेन्द्रियवधादिरूपत्वात । उक्तञ्चदेवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतधृणा, घोरां ते यान्ति दुर्गतिम् ॥१॥ मिथ्यात्विदानधर्मः पुनः 0000000000 उ.२४ in Education For Private Personal Use Only E Mw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy