________________
Coooooooooooooooooooo
॥अथाष्टमस्तरङ्गः॥ पुनरौषधदृष्टान्तेन विधिमाश्रित्य चतुर्भङ्गीमाहगुण १ दोसाहिअ २ दोसं गुणं च जह ओसहं चउह कुजा ।
अप्प १ बहु २ सब विहिहीणु ३ जुत्त ४ धम्मो वि तह चउहा ॥१॥ यथा चउहत्ति-चतुर्दा औषधं क्रमाद् गुणदोसाहिअत्ति-प्राकृतत्वाद्विभक्तिलोपः, गुणं १ दोषं २ चाधिकं करोति अर्थात्तदितरं स्वल्पं च दोषं केवलं ३ केवलं गुणं चेति ४ । तथाहि-किञ्चिदौषधं गुणमधिकं करोति दोषं पुनः स्वल्पं यथा कफपित्तज्वरिणः क्षुद्रादिक्काथः, स हि किञ्चित्पित्तं प्रकोपयति परं पित्तस्य सुप्रतीकारत्वात् स स्वल्पो दोष; श्लेष्माणं तु शमयति, स खलु बहुगुणः श्लेष्मणो दुष्प्रतीकारत्वादिति १। किञ्चित्पुनरौषधं दोषमधिकं पुष्यति गुणं पुनः स्वल्पं यथा कफपित्तज्वरिण एव सितागुडूच्यौषधं, तद्धि तस्य पित्तोपशमं निर्माति परं श्लेष्माणं पुष्णातितरां, स दोषो बहुः श्लेष्मणो दुष्प्रतीकारत्वात् ; पित्तोपशमरूपो गुणस्तु स्वल्पः तस्य सुप्रतीकारत्वादिति २। किञ्चिच्चौषधं केवलं दोष पोषयति यथा पैत्तिकज्वरातस्य तदुद्रेकेण प्रलपतस्त्रिदोषज्वरभ्रान्त्या वैद्येन निवेद्यमानोऽष्टादशक्वाथः, स खलु तं विकारं विशिष्य प्रकोपयति न पुनर्मनागपि गुणं दर्शयतीति ३। अपरं पुनरौषधं रोगिणः सद्यो गुणमेव प्रगुणयति यथा पैत्ति
000000000000000000000
Jain Education in
For Private
Personal use only
linelibrary.org