________________
जसल
சாருபாகருதுஇருடுருகருகருகரு
वचसा पुनर्या जिनधर्मेकाम्यादिप्राप्तिः सा गुणः, गुणदोषयोस्तुल्यत्वं चात्र व्यावहारिकमवगन्तव्यम् । ततः पुनर्जिनकाधमैकाग्र्यप्राप्तितो वाञ्छितसुखलक्ष्मीलाभरूपो गुणः प्रागुक्तदोषेण तुल्य इति । एवं मिश्रधर्मस्य तत्कारिणां परभवेऽपि तुल्यगुणदोषकृत्त्वं यथार्ह भावनीयम् । दृष्टान्ता अपि नन्दमणिकारादयो यथार्ह दर्शनीया इति तृतीयौषधदृष्टान्तदा
न्तिकभावना ३। | किञ्चित्पुनरौषधं अन्नयराहिअंति-गुणदोषयोरन्यतरम(द)धिक रचयति। प्राकृतत्वाद्विभक्तिलोपः। तत्र किञ्चिदौषधं गुणमधिकं रचयति दोषं पुनः स्वल्पं यथा कफपित्तज्यरिणः क्षुद्रादिक्वाथः । स हि किश्चित्पित्तं प्रोद्दीपयति परं पित्तस्य सुप्रतीकारत्वात् स्वल्पो दोषः, श्लेष्माणं तु शमयति स खलु बहुगुणः श्लेष्मणो दुष्प्रतीकारत्वादिति । तथा विहिही-10 णुत्ति-विधिना हीनस्त्यक्तो धर्मः पारिशेष्याजिनप्रणीतोऽन्यतरं गुणं दोष वा प्राक्प्रतिपादितस्वरूपमधिकं प्रथयतीति । तत्र विधिहीनेत्युक्तेऽप्यविधिकलुषितो धर्म इति प्रतिपत्तव्यम् । तत्राविधिर्नाम मात्सर्यशैथिल्यप्रमादादिकः। अवोचमेव-शैथिल्यमात्सर्यकदाग्रहक्रुधोऽनुतापदम्भाविधिगौरवाणि च । प्रमादमानौ कुगुरुः कुसङ्गतिः, श्लाघार्थिता वा सुकृते मला इमे॥१॥(अध्या० कल्प) अत्राविधिस्वरूपवाच्ये वृत्ते यत्पुनरविधीतिपदग्रहणं तन्यूनाधिकधर्मानुष्ठानकरणविषयतया व्याख्येयमिति । स चाविधिः सामान्येन द्विधा, अतीव्रकायानवधानादिमात्रोत्थः कायवाङ्मनसोऽतीवदुष्प्रणिधानादिजनितश्च । तमायेनाविधिना मिश्रितो जिनधर्मः सुबहुगुणं करोति स्वल्पं पुनर्दोष, श्रीजिनप्रतिमाया भूपतितपुष्पाधिरोपाद्यविधिपूजाकृतो महेभ्यस्येव करकण्डुनृपादीनामिव च । तेषां हि सकृन्मातङ्गकुलजन्मप्राप्त्यादिरूपो दोषः स्वल्पोऽभूत्,
Jain Education
For Private & Personel Use Only
jainelibrary.org