________________
मुनिसुन्दर
उपदेशर० तरग ७
@
@@
मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥१॥ अन्यदा तस्करैस्तस्य गृहसर्वस्वं मुषितम् । ततः क्षुब्धो यावत्तं देवीदत्तं मणिं गवेषयेत्तावत्सोपि न लेभे । क्रमाच्छेषापि श्रीर्गता, भोजनस्यापि सन्देहः पपात । दुःखितः स श्रीधरस्तेषां देवा-1 नामग्रे दिनत्रयं कृतोपवासस्तस्थौ । तृतीयेऽह्नि ते देवाः प्रादुर्भूय जगुः-भोः किमर्थमेवं लङ्घनपरोऽस्मानस्माषीः' ? लक्ष्मी मे दत्ते'ति सोऽवदत् । ततः कुलदेव्यूचे-"रे दुष्ट ! मदग्रतः शीघ्रमुत्तिष्ठ, एते देवास्तवाभीष्टं दास्यन्ति ये भक्त्या स्वगृहे समानीय यत्त्वया पूज्यमानाः सन्ति " । ततस्ते देवाः स्मित्वा प्रोचुः, गणेशश्चण्डिकां प्रोचे । भद्रे ! भक्तेऽभीष्टप्रदा भव । चण्डिकाप्याचचक्षे “यक्षोऽयमेतस्याभीष्टं स्वयं दास्यति, यः प्रौढासने निविष्टो मत्पूर्व पूज्यते"। यक्षोऽप्यभाषिट-"एतस्याभीष्टं शासनदेवतैव दात्री, यया प्रागपि लक्ष्मीप्रदं रत्नं दत्तम्" । एवं देवानां परिहासपुरःसरा गिरः श्रुत्वा श्रीधरो विषण्णोऽभूत् । ततस्तं शासनदेव्याह स्म-"भोः पश्य मिथोऽमर्षवद्भिरमीभिरखिलंदैवैस्तवोपेक्षैव व्यधीयत । ततश्चेत्त्वं सर्वानेतांस्त्यक्त्वा एकाग्रमनाः श्रीजिनं पूजयसि तदा तव गृहाङ्गणे सर्वाः समृद्धयः स्फुरन्ति । एतैर्देवैरपि श्रीजिनस्यैव पूजया वाञ्छितान्यवाप्यन्ते । ततो देवानामप्यधिदेवमेतं श्रीजिनमेकाग्रभक्त्याऽर्चय यदि लक्ष्मीसुखादि| वाञ्छसि । ततो यक्षादीन् सविनयं स्वगृहाद्विसृज्य श्रीधरो निश्चलचित्तः श्रीजिनमाराध्यति स्म । ततस्तुष्टा शासनसुरी रत्नकोटी दत्ते स्म । ततस्त्रिसन्ध्यं जिनार्चनकृत्स्वाः श्रियः सप्तक्षेत्र्यां सफलयंस्तद्भवे सुखी कीर्तिभाजनं चाजनि, प्रेत्य पुनरासन्नसिद्धिक इति । श्रीधरश्रेष्ठी खलु पूर्व जिनभत्त्येकाग्रमना अप्यन्तराले मिश्रं धर्म व्यधत्त, स च धर्मस्तस्य तत्रापि भवे गुणं दोषं च तुल्यमतनोत् । तथाहि-तस्य या धनादिहानिस्तादृग्दौर्गत्यदुःखाद्यवाप्तिश्च दोषः, शासनदेवी
ॐ000000000000
ॐॐ999900
॥१३५॥
Jain Education International
For Private & Personel Use Only
Mainelibrary.org