________________
@@@@
D 00000
@@@@
त्ति-मिथ्यात्वं केवलं दोषं अशुभप्रकृतिबन्धलक्षणं इह प्रेत्य च तथाविधाविवेकाकीर्तिदुःखदौर्गत्याद्यापत्प्राप्त्यादिस्वरूपं वा विदधतीति । अत्रापि दृष्टान्तास्तुरमिणिपुरीशदत्तनृपादयः प्राग्वज्ज्ञेया इति द्वितीययोर्भावना २।
समत्ति-किश्चित्पुनरौषधं दोष गुणं च प्रागुक्तस्वरूपं समं तुल्यमेव करोति यथा वातपित्तज्वरिणः पद्माक्षादिक्वाथः, स हि पित्तोपशमनाद्रोगिणो यावन्तं गुणं कुरुते वातविकारवर्धनात्तावन्तं दोषमपीति । तथा मीसत्ति-सम्यक्त्वमिथ्यात्वाभ्यां मिश्रो धर्मः, स प्रागुक्तस्वरूपं गुणं दोषं च समं करोति यथा श्रीधरस्य । तत्सम्बन्धो यथागजपुरे श्रीधरनामा वणिगवात्सीत् , प्रकृत्या भद्रकः। सोऽन्यदा मुनेः पार्थे धर्ममोषीजिनपूजाफलं च । ततो जिनधर्म प्रपन्नः अर्हत्प्रतिमा निर्मापयामास । तां भक्त्या त्रिसन्ध्यमर्चयति स्म । अन्यदा श्रीजिनप्रतिमा तामभ्यर्च्य तदग्रे धूपमुत्क्षिपन्नभिग्रहं जग्राह " एतावति धूपेऽनुत्क्षिप्ते इतः स्थानान्न चलामी"ति । देवात्तत्राहिर्निरगमत्तथापि तं निश्चलं यावत्स दशति तावत्तत्सत्त्वतुष्टा शासनदेवता तं सर्प दूरीचकार, तोषालक्ष्मीप्रदं मणिं तस्मै ददे च। ततो रत्नानुभावतस्तस्य गृहे लक्ष्मीरवर्धत तथा तथा तस्य जिनपूजादरोऽप्यधिकं ववृधे । अन्यदा कस्यचिन्मिथ्यादृशः पार्श्वे तद्धर्ममशृणोत् । भद्रकत्वात्तस्य परिणतः सोऽपि, तद्वचसाऽकारयदेकस्य सप्रत्ययस्य यक्षस्य प्रतिमा श्रीजिनप्रतिमावत्तत्समासनस्थां तामपूजयच्च । भक्त्या क्रमात् कस्यचित् कस्यचिद्वचसा चण्डिकाया गणेशस्य च मूर्ती कारयित्वाऽर्चयति स्म।भावुकद्रव्यं हि जीवःप्रायः सदसत्सङ्गत्या गुणदोषौ प्राप्येते तुम्बकवत् । तदुक्तम्-एके भेजुर्यतिकरगतास्तुम्बकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः । अन्ये केचिदथितसुगुणा दुस्तरं तारयन्ते, तेषां
@@@@
DOOOOOOO
@
Jain Education Inter
For Private Personel Use Only
Relainelibrary.org