________________
मुनिसुन्दर सू० वि०
॥ १३४ ॥
Jain Education
90000000
॥ अथ सप्तमस्तरङ्गः ॥ पुनः प्रकारान्तरेणौषधषड्भङ्गीदृष्टान्तेन धर्मषड्भङ्गीमाह
गुण १ दोस २ सम ३ न्नयराहिअ ४ ५ णुभयं ६ ओसहं जहा कुज्जा ।
तह सम्म १ मिच्छ २ मीसग ३ धम्मो विहिहीणु ४५ भावसुन्नो ६ अ ॥ १ ॥ गीतिः ।
यथौषधं षोढा तथा धर्मोऽपि षोढा भवतीति । अथ दृष्टान्तदाष्टन्तिकयोर्व्याख्यां योजनां च प्रत्येकमाह – गुणत्ति, यथा किञ्चिदौषधं सुवैद्यवचसा विधिवदासेवितं रोगिणो गुणमेव रोगोपशमादिलक्षणं करोति, यथा पैत्तिकज्वरार्त्तस्य चन्दनादिकाथः । तह सम्मत्ति, तथा सम्यक्त्वमित्यस्योपलक्षणत्वात् सम्यक्त्वसहितो धर्मः सर्वोऽपि विधिहीनस्य | पृथग्भणनादत्र विधिसहितत्वं ज्ञेयम् । ततश्च सुगुरुवचसा विधिवदाराधितो गुणमेवेह भवे यशः सौभाग्य प्रात्यादिलक्षणं ॐ परभवे पुनरिन्द्रत्वचक्रित्व तीर्थ कृत्त्वादिसम्पलक्षणं शिवावध्युत्तरोत्तरसुखसमृद्धिप्राप्तिलक्षणं वा, अशुभकर्मक्षयशुभप्र कृतिबन्धलक्षणं वा करोतीति । दृष्टान्ताश्चात्र कार्त्तिकश्रेष्ट्यादयो ज्ञेया इति प्रथमयोर्दृष्टान्तदाष्टन्तिकयोर्भावना ? |
(2)
दोसत्ति—यथा किञ्चिदौषधं दोषमेव विशिष्य व्याध्युद्भावनरूपं करोति । तथाहि — पैत्तिकज्वरार्त्तस्य रोगिणः पित्तो द्रेकेण प्रलपतोऽल्पमेधाः कश्चिद्भिषक् त्रिदोषज्वर भ्रान्त्याऽष्टादशक्काथं कारयति, स पुनर्विशिष्य तद्विकारोद्दीपनेन तं ॥ १३४ ॥ रोगिणं महापदं प्रापयति, न पुनर्लेशतो गुणं कुरुते; इत्यतो यथा पैत्तिकज्वरस्याष्टादशक्वाथः केवलदोषकरः, तथा मिच्छ
For Private & Personal Use Only
उपदेशर● तरंग ७
H
tw.jainelibrary.org