________________
सारम्भोऽनारम्भश्च । तत्र सारम्भः श्रीजैनप्रासादप्रतिमाप्रतिष्ठायात्रास्नात्रादिपूजासाधर्मिकवात्सल्यादिरूपः, स चतृतीयोषधवद्गुणं स्वकर्तुस्तादृग्निर्मलशुभाध्यवसायहेतुत्वेन जिनाज्ञाराधनप्रवृत्तत्वेन च पुण्यप्रकृतिबन्धलक्षणं दोषं च प्राषटकायारम्भप्रवृत्तत्वेन किश्चिदशुभप्रकृतिबन्धलक्षणं करोति, अत एव न तथा शुद्धः। तथा चाभ्यधिष्महि-द्रव्यस्तवात्मा धनसाधनो न, धर्मोऽपि सारम्भतयाऽतिशुद्धः । निस्सङ्गतात्मा त्वतिशुद्धियोगान्मुक्तिश्रियं यच्छति तद्भवेऽपि ॥१॥(अध्या० कल्प) इति । अनारम्भः पुनः सामायिकपौषधादिधर्मः, सोऽपि तृतीयौषधतुल्यत्वं नातिकामति, आरम्भप्रवृत्तपुत्रादिष्वनुमतिप्रवृत्तत्वेन गृहपुत्रकलत्रादिपरिग्रहवत्त्वादिभिश्च तत्त्वतः सारम्भत्वात् । तथा चागमः-कामी सघरंगणओ, थूलपइन्ना सि होइ दट्टया।छे अणभेअणकरणो, उदिटकडंपि सो भुंजइ (जे)॥१॥पंचविसया कामेत्ति कामी, सह गृहण सगृहः, अङ्गना स्त्री सह अङ्गनया साङ्गनः, शूलपइन्ना देसविरइत्ति वुत्तं भवइ, साहूणं तु सबविरई, वृक्षादिच्छेदने पृथ्व्यादिभेदने प्रवृत्तःसामायिकभावादन्यत्र "जं च उद्दिढकडं तं कडसामाइओ विभुंजइ" एवं स सर्वविरतो न भवतीति श्रीनिशीथचूणौ। अत एव न तथा शुद्धः, तत एव चैकदिनसम्बन्ध्यपि चारित्रं शुद्धत्वाद्यथा सिद्धिं सर्वार्थसिद्धिं वा दत्तेन तथा सुचिरमाराधितोऽपि श्राद्धानां सामायिकपौषधादिधर्मः, इत्यतःश्राद्धधमेस्तृतीयोषधस्यैव तुल्य इति भावशून्यः पुनः सर्वोऽपि धर्मस्तुरीयोषधवद्गणं दोपं वा किमपि न करोतीति । तदुक्तम्-धनं वित्तं दत्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्ड चण्डं रचितमवनी सुप्तमसकृत् । तपस्तप्तं तीव्र चरणमपि चीण चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥१॥ (सूक्तमुक्तावली) श्रीनेमिवन्दकश्रीकृष्णसुतपालकादयो दृष्टान्ता ज्ञेयाः।।
॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे चतुर्थेऽशे पञ्चमस्तरङ्गः।।
00000000000000000000000
उ.१३
Jan Education Intema
For Private
Personel Use Only