________________
मुनिसुन्दर
सू० वि० ॥१३२॥
उपदेशर० तरंग ५
0000000000000000000009
॥ अथ पञ्चमस्तरङ्गः॥ पुनस्तथैवौषधदृष्टान्तेन प्रकारान्तरेण धर्मचातुर्विध्यमाह
दोस १ गुणो २ भय ३ णुभयं, जह कुज्जा ओसहं तहा धम्मो।
मिच्छत्त १ मणारंभो २, सारंभो ३ भावसुन्नो ४ अ॥१॥ व्याख्या प्राग्वत् , नवरं आरम्भः षड्जीवकायोपमईस्तेन सहितः सारम्भो धर्मो गृहस्थानाम् । आरम्भरहितः का पुनर्धर्मः श्रमणसम्बन्धी सर्वविरतिसामयिकादिरूपः । तत्र मिथ्यात्वं प्रथमौषधवदोपमेवाशुभकर्मबन्धलक्षणं कुरुते तुर-16 मिणिपुरीशदत्तनृपादेरिव १। अनारम्भो धर्मस्तु यतिसम्बन्धी द्वितीयौषधवत्केवलं गुणं शुभप्रकृतिबन्धलक्षणं कर्मक्षय-10 लक्षणं बा कुरुते पुण्डरीकनृपादेरिव, अतिमुक्तककूरगडुकर्षिप्रभृतीनामिव, केसरिचौरदृढप्रहारिप्रभृतीनामिव च ।। तदुक्तम्-क्रूराचारोऽपि संसारकाराया मुच्यते द्रुतम् । केसरीव त्रुटत्कर्मदामा सामायिकव्रती ॥१॥ किश्च, एगदिवसं पि| जीवो पबजमुवागओ अनन्नमणो । जइवि न पावइ मुक्खं, अवस्स माणिओ होइ॥१॥ अपि च, कंचणमणिसोवाणं, थंभसहस्सूसिअं सुवन्नतलं । जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ ॥१॥ इति २ । अथ सारम्भो धर्मो गृहिसम्बन्धी बहुदोषारम्भनिवृत्त्यनतिदोषारम्भसार्थकप्रवृत्त्यादिरूपः, स तृतीयौषधवद् गुणं श्रीसम्यक्त्वदेवगुरु-17 भक्तिस्थूलहिंसाविरत्यादिसुकृतरूपं, दोषं चाजीविकाद्यर्थे षट्कायोपमर्दादिरूपं करोतीति । यद्वा गृहिणामपि धर्मो द्विधा-15
0000000000000000
॥१३२॥
Jain Education
La
For Private & Personel Use Only
W
w.jainelibrary.org