________________
000000000000000000
सन्तस्ते सुचिरं जयन्तु सुतरामीडे खलानप्यमून् , शास्त्रे येऽनुपदं गुणप्रकटनादू दद्युः प्रतिष्ठा कवेः। का काये चानुग्रहकाम्ययेव विविधान्दोषान् गृहीत्वाऽथवा,यादृक् तादृगपीदमर्थगुणकृभूयाज्जयश्रीपदम् ॥२९॥15 - इति श्रीतपागच्छे श्रीमुनिसुन्दरसूरिविरचिते जयथ्यङ्के श्रीउपदेशरत्नाकरे पीठिकारूपो जगतीतीर्थावतारः॥
अथ प्रथमतटम् ॥ तत्रादौ स्वेष्टसिद्धये समुचितेष्टदेवतानमस्कारमङ्गलं चिकीर्षुर्युगादिसमये समग्रधर्मकर्मव्यवस्थितिसूत्रणासूत्रधारश्रीऋषभदेवनमस्कारमाह ग्रन्थकारःजयश्रीसंगम रातु, श्रीमानादिविभुमम।सुतत्त्वनिधयो येन, सतां दत्ता हितैषिणा ॥१॥ स्पष्टम्
धर्म ब्रुवे इत्युक्तं प्राक् अथ धर्मस्यैवादौ ग्रहणविधिमुपलक्षणात्प्रदानविधि चाभिधित्सुः फलप्रधानाः प्रारम्भाः प्रेक्षावतां भवन्ति, इति फलाविष्करणपूर्वकं तद्विषयमुद्यमोपदेशमाह- .
जयसिरिवंछिअसुहए, आणि हरणे तवग्ग सारंमि। इह परलोअहि अत्थं, सम्मं धम्ममि उज्जमह ॥१॥ R व्याख्या-जयसिरित्ति, जयः सर्वोत्कर्षः समग्रबाह्यान्तरङ्गद्विषजयेन श्रीभरतचक्रवर्तिप्रभृतीनामिव देशोत्कर्षश्च कियद्विषजयेन श्रीकृष्णमहाराजादीनामिव, श्रियो मणिसुवर्णाद्या राज्यादिकाश्च नवनिध्यवधयोऽत्र, इन्द्राहमिन्द्रत्वाद्याः
000000000000000000
Jain Education National
For Private & Personel Use Only
Wlaww.jainelibrary.org