SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ CG0000600 00000000000006 काणीहाणं, अहा वजिअबओ॥२॥ इति । अविधिश्च कालविनयादिव्यतिक्रमः, यद्वा प्रमादा एवाविधिः प्रमादावि धिरिति । धर्मो दानादिरूपः, शेषं स्पष्टमिति । अथैतद्भाव्यते-यथा परिखासम्बन्धि जीर्णमम्बु निखिलनगरगतमलमूबनरगवादिशुनादिकलेवरकचवरादिभिरशुचितरं पूतितर्म जुगुप्सनीयं भवति । न च तद्गाढकारणेऽपि कैश्चिन्मलशौचाद्यर्थमपि स्पृश्यते । कुतश्चित्तस्पर्शसम्भवे तु तत्प्रक्षालनार्थ जलान्तरोपादानं च क्रियते । पशुभिरपि प्रायस्तत्पानादि| नाद्रियते, केवलं ग शूकरादीनां चेत्तदादरणीयं स्यात् , तथा मिथ्यात्वेन कलुषितो धर्मः प्रायो मिथ्यात्वसहचारिभिः |बहुतररागद्वेषमदमत्सरलोभदम्भमोहादिभिर्मलिनतमो यागादिच्छलप्राणिवधप्रभृतिभिरशुचितरः सर्वथा तत्त्वादिविचारविवेकाधनास्पदं विदम्भचेतसां मोक्षाभिलाषिणामात्मनः शुद्धिमिच्छता सर्वथाप्यनादरणीय एव, प्रत्युत तीव्रतरदुरितमलोपश्लेषहेतुत्वाद् दूरतरं परिहरणीय एव, केवलं बहुलकर्मणां निबिडमोहोपहतविवेकचक्षुषाम् अत एव तादृक्पशुप्रायाणां केषाश्चिद्यद्यादरणीयः स्यात्, श्रीकालिकसूरिभागिनेयदत्तनृपादेरिवेति प्रथमधर्मभेदभावना १। तथा जलं प्रायो वृष्ट्यभावे वर्षाद्यतिक्रमे विनश्यति, ततस्तद् दुःस्वादु दुर्गन्धं विकारकृच्च भवति । तत् पुनः पशुगणैः। कलुषितं चेत्तदा विशिष्य दुःस्वादुत्वाद्युपेतमपेयं स्यात् , दूरेऽपि जलान्तरलाभे स्नानादावप्यनुपयोगि च। जलान्तरालाभे |च कदाचित्तथाविधेऽवसरे यदि पीयते तदापि तथाविधं तृडुपशमाद्यपि न करोति, प्रत्युत किञ्चिदामयादिविकारकृदपि| स्यात् । तेन स्नानेऽङ्गशुद्ध्याद्यपि तथा न भवति, वस्त्रादीनामपि न शुद्धिः प्रत्युत किश्चिन्मलोपश्लेषोऽपि भवति । परं। का परिखोदकाद्विशिष्टं जलान्तरालाभादिकारणे जनैराद्रियमाणत्वान्मनुष्यमलमूत्रगोशुनादिकलेवराद्यशुचिरहितत्वाच्चेति । இருபதாவது Jain Educational For Private & Personal Use Only Akww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy