________________
उपदेशर०
तरंग २
मनिसुन्दर सू० वि० ॥ १२७ ॥
॥ अथ द्वितीयस्तरङ्गः॥ पुनर्भङ्गयन्तरेण योग्यायोग्यधर्मस्वरूपमाह
परिहा १ पसुगणकलुसिअजिन्नंबु २ नवंबु ३ माणससराभा ४।
मिच्छ १ कुभाव २ पमायाविही ३ यरेहिं ४ चउर धम्मा ॥ १॥ व्याख्या-परिहेति परिखासम्बन्धि १, पसुगणकलुसिअंति-पशुगणैः कलुषितं पल्वलादिसम्बन्धि च २, यजीर्ण वोदिसमयजवृष्टिजन्म अम्बु जलमिति द्वौ दृष्टान्तौ । तथा नवं सद्यस्कवृष्टिभवं चाम्बु इति तृतीयो दृष्टान्तः । मानससरः प्रसिद्धं तात्स्थ्यात्तव्यपदेश इतिन्यायात्तत्सम्बन्धि च जलं चतुर्थों दृष्टान्तः । एभिश्चतुर्भिर्जलैः सह समानामा शोभा येषां, यद्वैतेषां चतुर्णा जलानामिव आभा येषां ते परिखा-पशुगणकलुषितजीर्णाम्बु-नवाम्बु-मानससरआभाः। के ते?, इत्याह-मिच्छेत्यादि, मिथ्यात्व १ कुभाव २ प्रमादाविधिभिः ३, तदितरैः सम्यक्त्वशुभभावाप्रमत्तत्वविधिभिश्च युताश्चत्वारो धो भवन्तीत्युक्तिसंटङः। तत्र मिथ्यात्वं देवगुरुधर्मतत्त्वेषु मतिविपर्ययः, तदनुसारिण्यः क्रियाश्च । कुभावो |मात्सयोनुतापलोभदम्भादिः। प्रमादा मद्यादयः। तदुक्तम्-मजं विसयकसाया, निद्दा विगहा य पंचमी भणिया । एए पंच पमाया, जीवं पाडंति संसारे ॥१॥ यद्वा प्रमादोऽष्टविधः। यदुक्तम्-पमाओ अ जिणिंदेहि, भणिओ अहभेअओ। अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ॥१॥रागो दोसो मइब्भंसो, धम्ममि अ अणायरो। जोगाणं दुप्प-1
3300000000 नातिको
॥१२७॥
Ots
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org