SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उ. २२ Jain Education Int राज्ञा पृष्टम् — केन कर्मणाहं मातङ्गे जातः ?, ज्ञानी प्रोचे - प्राग्भवे त्वं महेभ्योऽभूः । त्वयैकदा जिनं पूजयता पुष्पं भूमिपतितं देवस्यानारोप्यं जानताप्यवज्ञयारोपितं, तेन त्वं मातङ्गो जातः । उक्तञ्च - उच्चिर्ड फलकुसुमं, नेविज्जं वा जिणस्स जो देई । सो नीअगोअकम्मं, बंधइ पायन्नजम्मंमि ॥ १ ॥ या च तव पूर्वभवे माताभूत्तयैकदा स्त्रीधर्मेऽपि ॐ देवपूजा कृता, तत्कर्मणा सैपा मातङ्गी जाता । यतः - धर्मानुष्ठानवैतथ्यात्, प्रत्यपायो महान्भवेत् । रौद्रदुःखौधजननो, ॐ दुष्प्रयुक्तादिवौषधात् ॥ १ ॥ तच्छ्रुत्वा वैराग्याद्राज्ञा दीक्षा गृहीतेति अविधिदेवपूजाफलकथा । देवपूजाविधिश्च ग्रन्थाअन्तराज्ज्ञेयः । विधिनैव च जिनपूजायां यतनीयम् । उक्तञ्च - शौचेन शुचिभिर्वस्त्र - स्तपसाऽऽराधितस्तथा । यक्षश्चित्रक | रस्येव, प्रसीदति जिनो यतः ॥ १ ॥ अपि च मनोवाक्कायवस्त्रोर्वी- पूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्री अर्हत्पूजनक्षणे ॥ १ ॥ एवमपरेष्वपि धर्मेषु पूर्णापूर्णादिविधित्वे पूर्णापूर्णादिफलत्वं स्वयं वाच्यमिति । इति विधिफलं निबुध्या - राध्यत विबुधा ! विशुद्धविधिधर्मम् । वाञ्छितविमोहविजय - श्रियोऽङ्कपालीसुखानि यदि ॥ १ ॥ ॥ इति तपागच्छेश - श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे चतुर्थेऽशे विधिशुद्धिनानि प्रथमस्तरङ्गः ॥ For Private & Personal Use Only 99009503 ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy