________________
ந
उपदेशर० तरंग८
मुनिसुन्दर तप्ते तदंशमात्रं क्षिप्यते, सर्व सुवर्णीभवति तत्ताम्रमित्यादि । ततस्तौ विप्रौ गृहमागतौ । ततस्तयोरेकः स्वगुरुष्वास्थासू० वि० वानुद्यमी सम्पूर्ण विधिं कृत्वा सुवर्णसिद्धिभागभूत् । द्वितीयः पुनरलसः पञ्चाशत्कृत्वः कृष्टे क्षेत्रे तद्वापादिप्रकारेणार्द्ध
मात्रं विधिं कुर्वन रोप्यसिद्धिं प्राप्तवांश्चेति । एवं हीने विधौ सर्वथा विध्यभावेऽविधिप्रयोगे च यथाई निदर्शनानि ॥१२६॥
मन्तव्यानि। दान्तिकमाह-तह धम्मो वित्ति, तथा तेनौषध्यादिप्रकारेण धर्मो विधेरनुसारात्पूर्णफलोऽसम्पूर्णफलो हीनफकालोऽफलोऽनर्थफलो वा भवतीति । तत्र पूर्णफलप्रदः पूर्णविधिकृतः श्रीजिनपूजाधर्मः श्रीश्रेणिकनृपस्य तीर्थकरसम्पत्प्र
दत्वात् । असम्पूर्णफलोऽसम्पूर्णविधिकृतो देवपालादीनां राज्यादिप्रदत्वात् । हीनफलश्च स एव हीनविधिकृतो यथा| कविविहलणादीनां मिथ्यादृशामैहिकधनाद्यर्थिनां अर्थितधनादिमात्रप्रदत्वाच हीनफलः स ज्ञेयः । अफलः पुनर्भावशून्य-का तया कृतः, स एव यथा नन्दकस्य । तत्सम्बन्धश्च मध्यमाधिकारे द्वितीयेऽशेऽष्टमतरङ्गे लिखित इत्ति भावशून्यतया का कृतोऽपि हि सर्वोऽपि विधिर कृत इव स्यात् फलानर्पकत्वादित्यतो भावशून्यक्रियासु सतीष्वपि विध्यभाव एव ज्ञेयः।
अनर्थफलस्तु पुण्यसारनृपतजनन्यादीनामविधिकृतत्वेन । तत्कथा यथा-कामरूपपत्तने मातङ्गस्यैकस्य पुत्रो जातः।। स जातमात्र एव पूर्वभववैरिणा व्यन्तरेणापहृत्य वने मुक्तः। इतश्च तन्नगरनृपो राजपाटिकायां गतो, वने तं बालं वीक्ष्यापुत्रत्वेन गृहीत्वा पालयामास, पुण्यसार इति नाम चास्य चक्रे । क्रमादुद्यौवनं तं राज्ये न्यस्य नृपः प्रवत्राज। ol कालेन केवली जातः कामरूपे प्रापत् । पुण्यसारो वन्दितुं गतः, पौराश्च पुण्यसारजननी मातङ्गयपि तत्रागात् ।
राजानं दृष्ट्वा स्तन्यमक्षरत् । तदृष्ट्वा राज्ञा हेतुं पृष्टः केवली प्राह-राजन् तवैषा माता, मया त्वं वने पतितो लब्धः।
TGTOாதாரும்
2000000000000000000000
॥१२६॥
Jan Education
For Private Personal use only
AN.jainelibrary.org