________________
10000000000000
॥ अथ चतुर्थेऽशे प्रथमस्तरङ्गः ॥ सो पुण जुग्गोत्ति गतं, गहिजए विहिणेत्ति तुर्य द्वारं विवरीतुकाम आहविहिअणुसारा ओसहिचुन्नाई जह फलंति लोगंमि। तह धम्मो वि तओतं, परिपुन्नविहीइ अजिणह ॥१॥ - व्याख्या-ओसहिचुन्नाइत्ति, औषध्यो विचित्रास्तत्र काश्चित्सुवर्णसिद्धिनिवन्धनं, काश्चिद्धनाक्षयत्वकारिण्यः, काश्चिदर्थितधनप्रदाः, काश्चिन्मनुष्यपश्वादिरूपपरावर्त्तमहिमभृतः, काश्चित्पुरुषस्त्रीरूपपरावर्त्तहेतवः, काश्चित्पन्नगविषापहाराः, काश्चिद्भूतशाकिन्यादिदोषनिग्रहकृतः । एवमनेकविधमहिमभृतो बहुविधा अपरा अपरा अपि महौषध्यः श्रूयन्ते । तथा चूर्णान्यपि सुवर्णसिद्धिप्रभृत्यनेकविधसिद्धिहेतूनि लोके प्रथितानि । आदिशब्दान्मन्त्राञ्जनगुटिकादिग्रहः । चिकित्साशास्त्रप्रतीता औषधीचूर्णगुटिकाञ्जनरसायनादयोऽप्यत्र स्वीकार्याः । एते सर्वेऽपि यथाविधेरनुसारात् फलंतित्ति फलं ददति, कोर्थः ? पूर्णविधियोगे स्वं फलं पूर्ण ददति असम्पूर्ण विधावसम्पूर्ण हीने हीनं च फलं ददति, सर्वथा विध्यभावे फलं न किञ्चिद्ददति । अविधिना प्रयुक्ता अनर्थफला अपि भवन्तीति । श्रूयते च क्वचित्सन्निवेशे द्वौ विप्रौ दरिद्रौ धनार्जनार्थ भ्राम्यन्तौ क्वचित्सिद्धपुरुषमाराद्धवन्तौ । तेन च तद्विनयतुष्टेन तयोः सुवर्णसिद्धिप्रदानि विद्यासाधिततुम्बीफलबीजान्यर्पितानि । विधिश्चोचे-शतकृत्वः कृष्टे क्षेत्रे खल्वेतान्युप्यन्ते, ततोऽङ्करोत्पत्तौ तदुपरि सर्वत्र च्छायार्थ मण्डपः क्रियते यथा सूर्यातपो न लगति । ततो विधिना प्ररूढं तद्वल्यादि ज्वालयित्वा भस्म क्रियते, ततस्ताने वह्नि
00000000000000
Jain Education
For Private
Personel Use Only
ainelibrary.org