SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 0000 उपदेशर० तरंग८ मुनिसुन्दर शात्राणि च श्रोतृणामापातेऽपि वीररसादिप्रधानत्वेन रसदायीनि मोक्षादिसद्गतिहेतुचारित्रादिशुभपरिणामनिवन्धनत्वेन सू० वि०का परिणामेऽपि महारसप्रदानीति तृतीयौषधवदुभयथापि मिष्टानीति ३।। ॥१२५ ॥ | धूर्ताः शशिमूलदेवादयः प्रसिद्धाः, तेषां चरित्राणि चतुराचतुरजनवञ्चननानाविधकपटबुद्धिवाच्यानि । तेषां न ताह कोऽपि शृङ्गारादिरसावतारः नापि धर्मावतारः, किन्तु कपटबुद्धिपरवञ्चनाघेव । तच्च न्यायोज्झितत्वेन सतां सर्वथाभोप्यनुचितमिति श्रोतॄणां मुखे न स्वदते, परवञ्चनबुद्धिप्रदर्शकत्वेन च केषाञ्चित्तादृक्पापप्रवृत्तिहेतूभवनेऽपि परिणामेऽपि न सुन्दरमित्यतस्तुरीयौषधवन्मुखे परिणामेऽपि च तानि न मिष्टानि । यद्यपि श्रोतॄणां किञ्चित्कौतुककारित्वं तेष्वप्यस्ति | हास्यादिरसाभासहेतुः, तथापि तदल्पतरत्वान्न विवक्षितम् । उपलक्षणात् कासिकादीन्यपि शास्त्राण्यत्र भङ्गे ज्ञेयानि । लाएवं शास्त्रविषयां चतुर्भङ्गी विभाव्य परिणामरग्यशास्त्राकर्णन विधावुपक्रम्यं नान्यत्रेत्युपदेशतत्त्वम् । विभाव्य भैषज्यनिदर्शनाचतु-भङ्गीमिमामागमधर्मगोचराम् । विधत्त यत्नं परिणामरम्ययो-स्तयोर्भवारातिजयश्रिये बुधाः !॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे तृतीयेऽशे अष्टमस्तरङ्गः ॥ ॥ सम्पूर्णस्तृतीयोऽशः॥ COU॥१२५॥ Jain Education Interay For Private & Personel Use Only H ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy