________________
णजयप्पडागा, अगहिअपुषा तहेव गहिअवा । इअ एवमाइ साहूण, दुक्करा होइ पवज्जा ॥ ५ ॥ इत्यादि । परिणामे तु रम्यः, एकदिवसाराधितस्यापि संयमस्य जघन्याराधनायामपि वैमानिकदेवसुखर्द्धिफलत्वात् । उत्कृष्टाराधनायां तु मोक्षानन्तसुखफलत्वात् । तथा चागमः -नाणदंसणचरिताराहणा कइविहा पन्नता ? गोअमा ! तिविहा पन्नत्ता । तं जहाउक्कोसा मज्झिमा जहन्ना । उक्कोसिआए नाणदंसणचरिताराहणाए तेणेव भवग्गेहणेणं सिज्झइ, मज्झिमाराहणाए तइअं © भवग्गहणं नाइकमइ, जहन्नाराहणाए सत्तट्ठभवग्गहणाईं नाइकमइ । भगवत्याम् । तपःपक्षेऽपि मुखे परिणामे व रम्यत्वारम्यत्वे स्वयं भाव्ये । तत्र धम्मिल्लादयो दृष्टान्ता अपि यथार्ह ज्ञेया इति द्वितीयो धर्मभेदः २ ।
अथ जिनस्यैव सम्बन्धी तत्प्रणीतत्वात्प्रभावनारूपो धर्मः । तत्र प्रभाव्यते प्रभावना उद्योत इतियावत् । सा चात्राधिकाराज्जिनधर्मस्यैव उपचारात्पुनर्जिनशासनस्योद्योतकारको धर्मोऽपि प्रभावना, स च श्राद्धानां सङ्घपतीभूय श्रीतीर्थयात्राकरणनव्यश्रीजिनप्रासादकारण जीर्ण तदुद्धरणप्रतिमाप्रतिष्ठा कारणपुस्तक लेखन वाचनचतुर्विधश्री सङ्घ विविधभक्तिकररणादिरूपः साधूनां तु नृपतिप्रतिबोधादिः । तदुक्तम्- पावयणी १ धम्मकही २, वाई ३ नेमित्तिओ ४ तवस्सी अ ५ । विज्जा ६ सिद्धो ७ अ कई ८ अट्ठेव पभावगा भणिआ ॥ १ देवगुरुधर्मप्रत्यनीकपराजयादिश्वोभयेषाम् एष च धर्मॐ स्तृतीयौषधवन्मुखेऽपि रम्यः, करणावसरेऽपि एतद्धर्मकर्त्तुस्तथाविधवपुः कष्टाहेतुत्वेन तादृग्हृदयाह्नादप्रदत्वेन चतुराचतुरनरादिषु प्रशंसैकहेतुत्वादिभिस्तादृक् प्रौढिप्रदत्तादिभिश्च परिणामे च तीर्थकर चक्रिमहेन्द्रपदव्यादिहेतुत्वेन रम्य एव ।
Jain Education Letonal
For Private & Personal Use Only
90004
w.jainelibrary.org