________________
39000000000000000000000
णेभ्यो दत्तं, ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुञ्जते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वयमेव ब्राह्मणो भुले स्वंवस्ते स्वं ददातीति । तथा-न नर्मयुक्तं ह्यनृतं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे, पश्चानृतान्याहुरपातकानि ॥१॥ तथा सौत्रामणीयानामध्ययने विश्वरूपप्रश्ने प्रथमकाण्डे इष्टीकल्पे पठितम् । तस्माज्यायांश्च कनीयांश्च स्नुषा च श्वशुरश्च सुरां पीत्वा प्रललापतुः, आसवे मालव्यं हि पास्यावै मालव्यं, ततो ब्राह्मणः सुरां पिबेत् ततः सौत्रामणीययज्ञे स्वगृहे मद्यसन्धानं पानमनुष्ठीयते । तत्रैव च-नैवं सुरां पीत्वा हिनस्ति य एवंविधां सुरां| | पिबेत् प्रजापतिवीर्यमादधाति । इत्येतानि सुरापानवचनानि । तथा सूत्रे तित्तिरिआणके-षत्रिंशे संवत्सरे स्थिते गृहप-| तिम॑गयायां यायात् , स तत्र यात्वा यान् मृगान् हन्ति ते तरसा समानेयाः पुरोडाशीभवन्ति इति यागकर्मणि ।। तथा-पट्सहस्राणि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचना--दूनानि पशुभिस्त्रिभिः॥१॥ इत्यादि । तथा द्विविधा ऋषयः, एके निवृत्तमांसा एके त्वनिवृत्तमांसाः। ये निवृत्तमांसास्तेषां दधिदुग्धमधुमिश्रो मधुपर्कः, ये त्वनिवृत्तमांसास्तेषामभ्यागताय श्रोत्रियाय महोक्षं वा महाजं वा वत्सतरी वा पच्यते । इत्याद्यामिषभक्षणवचनानि । एवं रागद्वेषमोहान्धैमिथ्याग्भिः पदे पदे यथास्वैहिकार्थसंसद्धिजीववधालीकस्तैन्यपरस्त्रीगमनसुरामांसभक्षणादीनि महापातकान्यपि धर्मतया कल्पयित्वा विधेयतामारोपितानीति तत्प्रतिपादकानि वचनानि कियन्ति लिख्यन्ते ? दिग्मानं| पुनर्दर्शितमिति । श्रीनेमिचरित्रे वसुदेवहिण्डौ चारुदत्ताधिकारप्रसिद्धच्छागादयो दृष्टान्ता अप्यत्र यथार्ह योज्याः । एवं तेषां धर्मे बहवो धर्मप्रकारा असारा एवेति । केचित्पुनः स्वल्पतराः केषुचित्किश्चिद्ब्रह्मचर्यतपःप्रभृतयो गुणाः सारा
FROாரFFERRஒருருருருருருருக
Jain Education
U
a
For Private & Personel Use Only
MONw.jainelibrary.org