________________
उ.२१
Jain Education Inte
२0000000006
''
हविज्जा अनिआणे अको उहले जे स भिक्खू ॥ १ ॥ इत्यादि । तस्य च्छायापि च हृदि परिणामरूपा निखिलवियोग रोगशोकादिदुःखतापाद्यपहृत्र भार्यावियोगार्दितश्रीदत्तेभ्यः प्रादुर्भूतसप्तमहाव्याधिकसनत्कुमारच क्रिषष्टिसहस्रसुतमरणजशोकार्त्तसगरचक्रयादीनामिव अमन्दशैत्यानन्दसुखहेतुश्च । तथा चागमः - अमरोवमं जाणिअ सुक्खमुत्तमं रयाण परियाइति । अपि च- 'जे इमे अजत्ताए समणा निग्गंथा विहरंति, एएणं कस्स तेउल्लेसं वीईवयंति ? गोअमा ! मासपरिआए समणे वाणमंतराणं तेउल्लेसं विईवयइ, दुमासपरिआए असुरिंदवजिआणं भवणवासीणं, तिमासपरिआए असुराणं, चमासपरिआए गहणक्खत्तताराणं पञ्चमासपरिआए चंदिमसूरिआणं, छम्मासपरिआए सोहम्मीसाणदेवाणं, सत्तमासपरिआए सणं कुमारमाहिंदाणं, अट्ठमासपरिआए सुक्कसहस्सार देवाणं, नवमासपरिआए दसमासपरिआए आणयपाणयआरणअच्चुअदेवाणं, एक्कारसमासपरिआए गेविज्जाणं, वारसमासपरिआए अणुत्तरदेवाणं, तेउल्लेसं विईवयइ । तओ सुक्के पच्छा सिज्झइ । अत्र तेजोलेश्या चित्तसुखलाभलक्षणा । इति भगवत्यङ्गे १४ शते नवमोद्देशके । यद्वा तस्य च्छाया चारित्रिणामासत्त्यादिरूपा सापि वैरादितापापहत्रीं, यथा बलदेवर्षेरासत्त्या व्याघ्रमृगादीनां वैराद्युपशमः, बहूनां च मिथ्यात्वोपशमबोधिबीजप्रात्यादि च । आमशौषध्यादिलब्धिमतां महर्षीणामासच्या तद्देहस्पृष्टपवनादि - ॐ भिरपि सर्वामयप्रणाशः, जङ्गमस्थावर विषाद्यावेग क्षुद्रव्यन्तरादिदोषाद्यशेषोपद्रवव्यपगमञ्च, अन्येषामपि तथाविधचारित्रभृतामासच्या सकलरोगमरकाद्युपद्रव दुर्भिक्षादीतिभीत्युपशमश्च शास्त्रेषु पदे पदे श्रूयते । तत्सम्बन्धा बहुश्रुतैॐ र्यथार्ह स्वयमवतार्याः । इति भावितः केवलसारो विरतिरूपः प्रथमो धर्मभेदः १ ।
For Private & Personal Use Only
ainelibrary.org