________________
SAFEET ORCHEORETOO
प्रतिक्रियाकरणेऽपि । तं द्रष्टुमागतायास्तस्या राज्ञः सुताया अपि स्वगृहादि दृष्ट्वा जातिस्मृतिरजायत । ततो राजसुतयोक्तम्-उहि सिढि मनभंति करि, करि हूअदाणवसेण । हुं सामाइअराजधूअ, बहुगुणसमथइअत्तेण ॥१॥ तद्वचः श्रुत्वा शीघ्रमुत्तस्थौ करी, नृपादीनां विस्मयः। ततो राजकन्योक्तं करिणः पूर्व भवं श्रुत्वा धर्मविषयादरादि तेषां बभूव । अत्र जरत्याः सामायिक द्वितीयभङ्गविषयमप्युदाहरणम् । ये च पञ्चेन्द्रियवधादिकलुषिता महायागादयस्ते महानरकाद्यनर्थफला एव । न तु वटवत्तुच्छफला अपि नाप्यर्कवल्लघवो बहुधनादि बहूपक्रमसाध्यत्वादिति नात्र चतुर्भझ्यामवतरन्तीति । __ यथा च चूतः सहकारतरुवृद्धः सारश्च । तत्र वृद्धोऽपरतरुभ्योऽधिकशाखाप्रशाखादिविस्तारत्वात्, सारश्च च्छाया-1 पत्रादीनां मङ्गल्यत्वात् । मञ्जरीकोरकफलादीनां पुनः प्रायोऽपरतरुभ्योऽधिकमहिमत्वाच्च । तथा चान्योक्तिवादिवचःसा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि, ग्राह्यः कश्चनभूभृदप्सु दधिरे रत्नानि रत्नाकरः । हा दैवेति वचो विना न ददते वज्राणि वज्राकरास्तेनाहं सहकार ! सारफलदं त्वामर्थितुं सङ्गतः ॥१॥ तथा सम्यग्दानयात्रादिधर्मो वृद्धः । सारश्च । तत्र सम्यग्दानानिन्यायार्जितधनस्य जिनप्रासादजीर्णोद्धारजिनप्रतिमातत्प्रतिष्ठापूजागुरुसाधर्मिकादिषु विधिवन्नि-15 योगरूपाणि सम्यग्यात्राश्च यथोक्तविधि जङ्गमस्थावरतीर्थयात्रा रथयात्रा आदिशब्दादपरेऽपिप्रभावनाङ्गत्वं गतास्तपःसत्य-1 शीलादिगुणा देशविरतिसर्वविरत्यादयो वा धाः, जातावेकवचनं, ततः स एष धर्मो वृद्धः सुबहुधनादिसामग्रीसाध्यत्वेन चतुराचतुरजनमध्यबहुप्रसिद्धिनिबन्धनत्वादिभिश्च सारश्च, मिथ्यादृशामपि जिनधर्मे बोधिहेतुतया तीर्थङ्करत्वच
000000000000000000000000
Jain Education Intern
For Private & Personel Use Only
Penelibrary.org