________________
मुनिसुन्दर सू० वि०
2009
उपदेशर
॥२॥
तस्यास्त्युपायः खलु धर्म एव, तं च प्रवादा बहुधा वदन्ति । पृथक् पृथक् स्वस्वमतीयशास्त्रैः स्वरूपभिद्धेतुफलादिवाभिः ॥ १७ ॥ न ते च सर्वे शिवसिद्धयुपायाः किंत्वेक एवाखिलवित्प्रणीतः । सुदुर्लभोऽयं मिलितः परैस्तु, मुग्धैर्विना शुद्धगुरूपदेशम् ॥ १८॥ अयं पृथक्कृत्य ततः परेभ्यः प्रदर्शनीयः शिवहेतुरेकः । परेऽयशुद्धा इति दर्शनीयाः, पृथक्कृतिर्यस्य तथैव साध्या ॥ १९ ॥ शिवार्थिनां मन्दधियां ततो नृणा-मनुग्रहार्थ विविधैर्निदर्शनैः । व्यक्त्या विशुद्धयादिभिदां जिनोदितं, धर्म ब्रुवेऽन्यानपि तत्प्रसङ्गतः ॥ २० ॥ प्रारभ्यते स्वल्पधियाऽपि तेनो-पदेशरत्नाकरनामशास्त्रम् । नानातरङ्गादिमयोपदेशै-र्दधत्स्वरूपं स्वपरोपकृत्यै ॥ २१ ॥ विचार्यते शक्तिरथाप्यशक्ति-र्न वै मया येन तयोर्विचारः । परोपकारैकरसे कलङ्क-त्यत्र प्रवृत्तश्च तदेकहेतोः ॥ २२॥
TTTTTTTTTTTTTTTTTTTTTT
॥
२
॥
©
Jain Educational
For Private & Personel Use Only
PARMr.jainelibrary.org