________________
3000000000000000000000
वाह्यशौचेनात्मनः शुचित्वम् । अत्रोक्तिप्रत्युक्ती, तच्छृण्वतः पुष्पदन्तस्य जातिस्मरणं, ततोऽभिज्ञानपूरणादिना सुतादि-16 काकुटुम्बप्रत्यायनम् । ततो गुरूक्तधर्मप्रतिपत्त्या कान्तानगर्या विभुनृपस्य नन्दनामा सुतोऽभूत् । सर्वगुणकलासम्पूर्णः ||
क्रमाद् द्वात्रिंशत्कन्या युगपत्परिणायितो राज्ये निवेशितश्च । विषयसुखगृद्ध उदितास्तमिताद्यपि न विवेद, दूरे धर्मः। अन्यदा प्राग्भवपुत्रेण श्राद्धधर्माराधनात सहस्रारकल्पं प्राप्तेनागत्य निशि बहूपायैः प्रतिबोधितो गुरुपायें दीक्षां गृहीत्वा | अच्युते प्रापत् । क्रमान्मोक्षं प्राप्स्यति अल्पैर्भवैरिति । | अथ तृतीयासंभवहिग्मोहपादबलसमन्वितपुरुषसमः कश्चिद्भव्यो यक्षसमं सद्गुरुमधिगत्य तदुपदेशान्मोहनीयादिकमक्षयोपशमवशेन सञ्जातचरणपरिणामः सम्यक्चारित्रं प्रतिपद्य चरणकरणानुगता द्वादशविधतपोऽनुष्ठानादिक्रियाः| कुर्वाणः परीषहोपसर्गान् सम्यक्सहमानः सर्वदाप्यप्रमत्ततया ज्ञानादिगुणानाराध्य तस्मिन्भवे उत्कर्षतः सप्ताष्टभवा का सर्वेभ्यः पूर्व मुक्तिं तत्सुखानि चासादयतीति तृतीयनरभावना। ___ अथ चतुर्थासम्भवद्दिग्मोहाबलपादसमः कश्चिद्भव्यस्तथैव गुरूपदेशाच्चारित्रधर्माराधनाशक्ततया द्वादशविधं गृहि
धर्म प्रतिपद्य सम्यग्ज्ञानदानकियत्तपःषविधावश्यकपौषधादिक्रियां कुर्वाणः सप्तक्षेत्र्याराधनतत्परस्तृतीयभवे उत्कलापतोऽप्रतिपतितसम्यक्त्वपरिणामो "दो वारे विजयाइसु गयस्स तिनिचुए अहव ताई" इति वचनात् पञ्चमे सप्तमे वा2
भवे प्रतिपतितसम्यक्त्वपरिणामस्तु सङ्ख्यातादिकैर्भवैस्तृतीयभव्यपुरुषात् पश्चात् प्रथमद्वितीयाभ्यां च पूर्व मुक्तिं तत्सुखानि च समधिगच्छतीति भावितश्चतुर्थः पुरुषः।
BOGOOGGGGGGGGG
en Educator
For Private Personel Use Only
w.jainelibrary.org