SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उपदेशरः तरंग ४ मुनिसुन्दर तव्रतदानतपःकन्दमूलभक्षणस्नानादिक्रियां कुर्वाणो जिनचैत्यमुनिश्राद्धादिषु प्रद्वेषाभावात्तेषामपि संसर्गवचनाकर्णना- सू० वि०दिना नागदेवतापशुबलिमहाकोटिहोमादिकासु महारम्भासु क्रूरक्रियास्वरज्यन् चाण्डलीभूतविप्रादिवन्मनुष्य कुगतीस्तिर्य ग्योनीर्वा भ्रान्त्वा प्राक्पुरुषवन्मोक्षादनतिदूरे भूत्वा पूर्ववदपूर्वकरणसूर्योदये निवृत्तदिग्मोहसममिथ्यात्वतत्त्वव्यामोहो ॥११५॥ व्यावृत्तमनाः कथमपि यक्षवनसमां मनुष्यगतिं प्राप्य यक्षसमं गुरुं चाधिगत्य तदुपदेशात् सम्यग्मार्गप्रवृत्तोऽल्पभ्रमणेन पूर्वपुरुषात्पूर्वमुत्कर्षतोऽनन्तैर्भवैन्यूनपुद्गलपरावर्त्तमध्ये मुक्तिमधिगच्छतीति द्वितीयपुरुषभावना । चाण्डलीभूतविप्रकथा त्वियम्-वाराणस्यां पुरि इन्द्रशर्मा विप्रो वेदाद्यशेषविद्यास्थानपारीणः कुलमदमत्तश्चाभूत् । यात्राविवाहदीक्षागृहदेवकुलतटाकवाप्यादिस्थापनादिषु जन्ममरणादिषु च स एवाग्रेसरः क्रियते जनैः पूज्यते च । जैनमुनिश्राद्धादिसंसर्गादिना पशुवधादिमययागादिक्रियास्वरज्यन् स्वकुलोचिताः स्नानादिका मिथ्याक्रियाः कुरुते । अन्यदा यात्रावसरे सक्रियमाणो जनैरभिमानं गतो नीचगोत्रकर्म निबध्य तत्रैव चाण्डालस्य सुतोऽभून्नाम्ना पुष्पदन्तः कुरूपः कृष्णवों गीतरुचिश्च जातः । लोकहील्यते, तस्मै कन्यां कोऽपि न दत्ते । ततो दुर्भगो दरिद्रः स्वकर्मनिन्दापरः प्रत्यहमिन्द्रशर्मगृहे गायन भिक्षा याचते । अन्यदा तत्र पुरेऽतिशयज्ञानी चन्द्रो नाम गणभृत् समवसृतः। स कुलमदपरराज. सुतादिस्वशिष्याणां प्रतिबोधाय तैः सहित इन्द्रशर्मगृहं प्राप्तो भिक्षाग्रहणमिषेण पुष्पदन्तादीनां प्रतिबोधाय च तावत्पुष्पदन्तं गृहजनहींल्यमानं ददर्श । तत इन्द्रशर्मणो ज्येष्ठपुत्रं मधुशर्मविप्रं प्रत्याह गुरु-मधुशर्मन् ! स्वजनक माऽवहीलय । ततो विस्मयापन्नः स प्रोचे-मम पिता स्नानादिक्रियापरः कथं चाण्डालत्वं यायात् ? । गुरुरूचे-भद्र !न 0000000000000000 0999oOOD00000 ॥११५॥ Jain Education in a l For Private Personel Use Only ANMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy