________________
दिनाप्यपरीक्षितदिग्वैपरीत्यो द्रव्यादिना तमारुह्य तथा कथञ्चिजगाम यथा तस्य पुरस्य कदापि वार्तामपि न लेभे, कुतः प्राप्तिः ? । सवाहनोऽप्यटव्यादौ पतितोऽसङ्घयवर्षाण्यप्यसलयदुःखभागभूत् । कश्चित्पुनरसङ्ख-यवः कथश्चित् प्राक्तनं यक्षवनं प्राप्य यक्षस्याराधनया तद्दत्तफलैरोषध्यादिविशेषैर्वा सञ्जातपदपाटवो मिलितवाहनो वानेकैवर्षेः स्वेष्टपुरस्य निवृ-क त्तदिग्मोहतया सन्मार्गे चलितो लेभे च तत्पुरं तत्र क्रयाणकानि चेति ५। ला अथ षष्ठः सुहृत्तथैव सर्वेषां चलनादिना स्वं शोचन् यक्षमहिम्ना स्वभावाच्च दूरनष्टदिग्मोहः कर्मानुभावाद्बहुना स्वल्पेन
वा कालेन मिलितवाहनेन सम्यगाराधनात्तुष्टयक्षदत्तैः फलैरोषधीविशेषैर्वा सञ्जातपदपाटवो वा तथैव वर्षादिमध्ये तत्पुरं प्राप क्रयाणकानि चेति ६ । एवं भाविता दृष्टान्तरूपाः षड् नराः। | अथ दार्टान्तिकषड्नरभावना-क्षितिप्रतिष्ठितपुरसमः संसारः, यक्षवनसमा मनुष्यगतिः, यक्षायतनसमः सुविहितगच्छः, यक्षसमाः श्रीसद्गुरवः, यक्षादेशसमो गुरूपदेशो जिनागमो वा, इष्टपुरसमो मोक्षः स्वर्गोऽपि वा, क्रयाणकसमान्यनन्तानि शिवसुखानि स्वःसुखान्यपि, पडूनरसमाः पद शिवाद्यर्थिनः पुरुषा, दिग्मोहसमं मिथ्यात्वं, अदिग्मोहसमं सम्यक्त्वं, पादवलसमा तपोनियमादिक्रिया, सा च भ्रान्तस्य मिथ्याक्रियातपःपारणककन्दमूलफलाशनस्नानाग्निहोत्रया-] गमिथ्यादानकुगुरुकुतीर्थकुदेवोपास्तिसन्ध्यावन्दनादिका, अभ्रान्तस्य च सम्यक्रियासम्यक्तपोयमनियमावश्यकसद्दानब्रह्मव्रततीर्थसेवादिका । अथ च यथा क्षितिप्रतिष्ठितपुरवासिनः षट् पुरुषाः क्रयाणकजिघृक्षया इष्टपुरं प्रति जिगमिषया यक्षवनेऽवात्सुस्तथा केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना मोक्षसौख्यमनुपमं ज्ञात्वा तदर्थ जात
వింతలు అంతంతు0000000000
Jain Education
For Private & Personel Use Only
ainelibrary.org