SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ இ मुनिसुन्दर सू०वि० இருஇரும் उपदेशर तरंग४ ॥११३॥ .ஓCTOCES अथ द्वितीयस्तादृग्गाढोद्यमविकलत्वान्निशाया द्वितीययामे समुत्थाय प्रथमं सार्थकं तत्रानवलोक्य तेन स्वं वञ्चितं मन्यमानः क्रयाणकार्थं त्वरमाणो गर्वाज्ञानादिना यक्षमवगणय्य पूर्ववत्सञ्जातदिग्मोहात् पश्चिमायामेव चलितः । सत्वरं चलन्नपि पश्चादुत्थितत्वादवलपादत्वाच्चारुणोदयसमये त्रिचतुराणि योजनान्यगात् । ततः पृष्ठे उद्यन्तं भानुं विभाव्य निश्चितदिग्मोहादिः प्राग्वत् शोचनादिपरः पश्चाद्वलितः । स्वल्पमार्गागमनाल्पश्रमादिना पूर्वोत्थितात्मागेव यक्षायतनं प्राप्य यक्षभक्तितदुपदेशादिना सम्यग्मार्गे चलितः । पूर्वोत्थितात् पूर्वमिष्टपुरं प्राप बहुना कालेन २ । ___ अथ कियन्निशासमयातिक्रमे तृतीयः समुत्थितो द्वौ चलितो ज्ञात्वा विशिष्य त्वरमाणः स्वभावादप्यसम्भवद्दिग्मोहः पुनर्यक्षस्तुतिपूजोपदेशैर्बहुनक्षत्रमार्गचिह्नादिविलोकनैश्च निर्णीते स्वेष्टपुरमार्गे त्वरितं चचाल । सबलपादत्वाच्च सर्वेभ्यः लाप्रागेव तत्र प्राप । मनोवाञ्छितानि क्रयाणकानि सुखेनाप्यलभत ३। ___ अथ चतुर्थोऽपि तथैव समुत्थितः । पङ्गवर्जान् सर्वांश्चलितान ज्ञात्वा विशिष्य त्वरमाणस्तथैव तृतीयमित्रवद्यक्षभक्ति-|| सदुपदेशादिभिर्निणीते मार्गे किञ्चिदबलपदत्वात् तृतीयमित्रादनु प्रथमद्वितीयाभ्यां प्राक् स्वेष्टपुरं प्राप, प्रार्थितक्रयाणकानि च लेभे ४। ____एते च चत्वारोऽपि गतिक्रियावत्त्वात्तद्बलेनेष्टपुरं प्रापुः, पङ्ग त्वेवमेव स्थितौ । अथ च कियता समयेन प्रथमपङ्गुरुत्थितः सुहृदश्चलितान् ज्ञात्वा भृशमिष्टपुरे गमनाय भ्राम्यन्नपि गतिक्रियाविकलत्वात्स्वं शोचन्नेव स्थितः । कियता कालेन पश्चिमायामपि त्वरितं यत्किञ्चिच्छकटाश्वादिवाहनं दृष्ट्वा स्वभावाद्यक्षावगणनया साततीव्रतमदिग्मोहतया सूर्योदया-| க* ॥११३॥ मेमोस Jain Education Inter M For Private & Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy