________________
Jain Education Int
500
प्रणामादिभिः सन्तोष्य यथातदुपदेशं पथि गन्तुं प्रवर्तन्ते, इष्टं पुरादि च प्राप्नुवन्ति । ये च गर्भाज्ञानादिना तमवगणय्य | प्रवर्तन्ते, ते च बहवोऽपि दिग्मोहादिना सम्भवद्विघ्नतया अज्ञानादिना वा नेष्टं प्राप्नुवन्तीति स्थितिः । अथ प्रथमः क्रयाणकेषु भूरिलोभसमन्वितत्वादहंपूर्विक्रया तत्पुरगमनैकचिन्तावशादन गच्छदृढनिद्रातिशयः प्रथमप्रहरस्यैवान्ते समुत्थितः । | शेषाणां जागर्याभयादकृतसञ्चालोऽतिद्रव्यार्जन र सिकतया राभस्यादविलोकितमार्गादिचिह्नोऽपरीक्षितनक्षत्रादिस्थितिर्नि - भृतवृत्त्यैव गर्वाज्ञानराभस्यादिना यक्षं प्रणामाद्यकरणेनावगणय्य सञ्जातदिग्व्यामोहात् पश्चिमायां राभस्यादभिमानान्मा|र्गस्यापरीक्षणादनादराच्चारण्यानां दिव्यामोहात् कस्मिंश्चिन्मार्गाभा से दधावे । निशात्रा हुल्यादरण्यगमनादिना च विशे|पपथिकादीनाममिलना न्मिलनेऽप्यभिमानग्रहिलत्वेनाप्रच्छनादतिप्रबलांहितया भृशं त्वरितगमनाच्च यामत्रयेण दश योज नान्यगमत् । ततश्च पृष्ठेऽरुणोदयं दृष्ट्वा जातदिग्मोहातिरेकः सूर्योदयान्निश्चितदिग्वैपरीत्यागमनः स्वपादबलराभस्याभिमानादि शोचन्निष्टपुरप्राप्तौ निराश इव भवन् सद्यः पश्चाद्ववले । परं महत्यरण्ये निपतितत्वात् मार्गापरिज्ञानगाढक्षुत्पि| पासाश्रमसञ्जातपादस्फोटग्लान्यादिभिर्वासक स्थान कयक्षभवनं यावदप्यागन्तुं न शक्तः । कथं पुनर्द्विगुणदूरीभूतमार्गे इष्टपुरे गन्तुम् ? । अथ च कदाचिदरण्ये यतस्ततो भ्रमणादिना यथाप्रवृत्त्यैव कर्मवशात्तादृग्मिलितपुरुषविशेषोपदेशेन वा मार्गे लब्ध्वा बहुना कालेन यक्षायतनं समेतः । ततश्च पूर्वस्वगर्वप्रमादादि शोचन् प्रमाणादिभिर्यक्षं तोषयित्वा तदुप| देशमहिमादिना ज्ञातेष्टपुरमार्गः सर्वान् पाक्तनान् सार्थिकांश्चलितानिष्टपुरे प्राप्तांश्च ज्ञात्वा गलिताभिमानश्चलन् कियता कालेन सर्वेभ्यः पश्चादिष्टपुरं प्राप १ ।
For Private & Personal Use Only
1000
lainelibrary.org