SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ उपदेशर० तरंग ३ @ मुनिसुन्दर कैरपि कथञ्चनापि पाशादिषु पातयितुमशक्याः सुखार्थिनः स्वैरविहारादिसुखमनुभवन्ति, एवं जिनकल्पिकप्रतिमाप्रतिसू० विपन्नकाद्या मुनयः पूर्वपाठादिना योग्यतया गुर्वनुज्ञाततया एककाप्रतिबद्धविहारिणः सर्वथा निःसङ्गा निष्प्रमादाः स्वं विशेषोपदेशदानादिरहिततया कियत एव स्वाश्रितांश्च प्रमादतृष्णाभवदुःखेभ्यस्तारयन्तो यत्रास्तमितस्थायिन आगमोक्तजिनकल्पाद्याचारमाचरन्त इहापि जगत्पूज्या एकादिभवैः शिवगामिनश्च सुखार्थिनो द्वादशमासपर्याया इहाप्यनुत्तरसुखं भवान्तरे च सिद्धिसुखं निरुपाध्यमिश्रमव्ययमनन्तमनुभवन्तीति द्वितीयो मुनिप्रकार एकादशश्च नरप्रकारः ११ । एतेषु |च नरप्रकारेष्वाद्याश्चत्वारः प्रकाराः प्रायः सर्वथा धर्मनिरपेक्षा एव सम्भवन्ति, शेषास्तु प्रायो धर्मसापेक्षाः क्रमादुत्तरोत्तरमुत्तमाश्च सर्वेऽपीति । एकादशैवं नृभिदोऽवगत्य, तथा यतध्वं कृतिनः ! सुखार्थाः। क्रमाद्यथा प्राप्नुत मुक्तिसीम, शर्मैव कर्मारिजयश्रियेद्धाः ॥ १ ॥ ॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयश्यङ्के प्रथमे तटे तृतीयेऽशे एकादशसुखार्थिनरप्रकारव्याख्यानामा तृतीयस्तरङ्गः॥ 000000000000 2000@@@@@@@ ॥१११॥ Jain Education For Private & Personel Use Only A jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy