________________
எனOCCCCCCCCCCCCOUஇரு
विराजते । अथ च गतेषु कियत्सु दिनेषु एकः श्वापदः क्वचित्कथञ्चित् कूपमध्ये पात । तं दृष्ट्वा च श्वापदाः सिंहमुपसृत्यावोचन्-स्वामी त्वं नः, ततः कथमपि कूपादेनं समुद्धरेति । सोऽपि सञ्जातकृपस्तैः सह कूपस्योपकण्ठमागत्य तानुवाच-भो ! भवत्सु समर्थतमः कश्चिन्मत्पुच्छं दृढमवलम्बतां, तस्य चापरः, एवं तावद्यावत् कूपजलं कश्चित्पर्याप्नोति । तत्पुच्छविलग्नश्च प्राक्पतितः सुखेन कृपान्निस्सरिष्यतीति । तैश्च तथा कृते तत्पकिं कूपमध्ये क्षिप्त्वा सिंहोऽपि महाबलेन तं तत्पृष्ठलग्नप्राक्पतितश्वापदं चाकृष्य कूपाहिर्निस्सार्य च सजाताधिकभक्तिभिस्तैः सेव्यमानः सुखं विललास । तथा दृष्ट्वाथ कश्चिच्छृगालः प्राग्वलब्धोपायो गर्वितस्तथैव कृत्वा तत्पतिभाराकान्तः स्वं धर्तमशक्तः कूपे पपात । तानपि चापीपतत् इति सिंहसदृशा गुरवः स्वं स्वाश्रितांश्च जन्ममरणादिदुःखदवाग्नी लग्ने भवविषयतृष्णानदी समुत्तार्य तस्माद्रक्षितुं क्षमन्ते । दुर्गतिकूपे च निपतितांस्तस्मादुद्धर्तु प्रगल्भन्ते । शृगालसदृशाश्च कुगुरवः श्रुतार्थादिज्ञानक्रियानुष्ठानादिबलविकलाः स्वं स्वाश्रितांश्च मजयन्ति निपातयन्ति चेति सिंहसदृशाः सुगुरवः समाश्रयणीयाः सुखार्थिभिः । अनया दिशा च तीर्थकरगणधरादयोऽपि सविशेषतममहिमादिसूचकविशेषणैाख्येयाः। एवं च ते मुनय इह श्रीसङ्घलोकेवाधिपत्यमनुभवन्तस्तैर्वन्दननमस्करणपूजनस्तवनादिभिर्महिमप्रकर्षमारोप्यमाणास्तद्भव एवैकादिस्वल्पभवैर्वा शिवगामिन इति सुखार्थिनः सम्यक्तदुपायवृत्त्योत्तरोत्तरं सुखमनुभवन्ति । इति प्रथमो मुनिप्रकारो मूलतो दशमश्च नरप्रकारः १०॥10 | अथ यथा भारण्डा द्विजीवा द्विमुखा एकोदराश्चेत्यादिलक्षगा महावपुषः पक्षिविशेषाः सदाप्यप्रमत्ताः स्वं स्वाश्रितांश्च |कियतो गिरिनदीसमुद्रादीन् दुरुलानुत्तारयन्तो यत्किञ्चित्पाशादिभयस्थानं शङ्कमानाः सर्वाऽग्राह्यप्रकारमत्युच्चैश्चरन्तः
JainEduca
For Private Personel Use Only
www.jainelibrary.org