SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १०८ ॥ दिसुखलाम्पय्यात् परेभ्यः शिवमार्गानुकूलानुष्ठानाद्युपदिशन्तोऽपि स्वयमकुर्वाणा असंयमपदेषु प्रवर्तमानाः सुखार्थि नोऽप्यनन्तभव भ्रमणदुःखभाजनं भवन्ति । केचित्तु ब्रह्मचर्यादिकिञ्चित्क्रियादिना किल्विषिकामरादिषु उत्पन्ना अपि तृत युता भवगामिन एव प्रायो भवन्तीति मासाहस पक्षिदृष्टान्तेन षष्ठो नरप्रकारः पार्श्वस्थादिरूपः ६ । Parar faster रसनेन्द्रियसुखलाम्पय्याद् दुग्धं पिबन्तस्तद्धनिकेभ्योऽनर्थ विदन्तोऽपि तत्पानादविरमन्तो © लगुडं दृष्ट्वा केचित् कदाचिन्नष्टुं शक्नुवन्ति, केचिच्च सहसा तदाहताः सुखार्थिनोऽपि दुःखिनो म्रियन्ते । एवं कंचिन(हिणः सामान्या नियोग्यादयो राजानश्च श्राद्धधर्मज्ञा घोरारम्भसर्वास्रवप्रवृत्त्यादिपापैर्भावीनि घोरदुर्गतिदुःखानि विद न्तोऽपि ते पापद्रव्यपश्ञ्चप्रकार विषयादिलुब्धास्तादृग्धनराजमानराज्यादिमुधाभिमानभाजो बह्वारम्भराजव्यापारयुद्धॐ ग्रामनगरघातादीनि कुर्वाणाः, किं बहुना ? केचित्सर्वप्रकाराण्यपि पापानि प्रवर्तयन्तः सर्वथाध्यास्रवविरतिप्रतिपत्तिपालनादिरहिताश्च प्रान्ते केचित्किञ्चिदाराखुं शक्ता भवन्ति ते च काञ्चित्सुगतिं लभन्ते, चेटककोणिक सङ्गममृतवरुणादिवद् मधुनृपादिवच्च । केचित्पुनः प्रान्तेऽपि प्रागभ्यासादात्मानं पापेभ्यो निवर्तयितुमशक्ता मरणलगुडाहता माजारवद्विविधदुःखान्यनुभवन्ति दुर्गतिगताः, श्रेणिकनृपसत्यब्रह्मदत्तादिवत् आनन्दादिनियोगितापसश्रेष्ठ्यादिवच्च । इति सुखाथिनोऽपि दुःखिन एवाल्पसुखा वा भवेयुरिति सप्तमो नरप्रकारः प्रथमश्च जैनधर्मविग्रहस्थप्रकारः ७ । 966900তও अथ च यथा शुका अवद्धा अपि 'नलकदलविलोलत्कीरवद्वञ्चिताः स्म' इति वचनात् स्वं बद्धं मन्यमाना अल्पैरपि वा ॥ १०८ ॥ बन्धनैर्बद्धाः पञ्जरवासनियन्त्रणां सहन्ते । पञ्जरान्मुक्ता अपि वा मनुष्यकरादौ स्थिताः सततमिष्टफलाहारादिभिः पोष्य Jain Education International | उपदेशर० तरंग ३ For Private & Personal Use Only 1. jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy