SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ यस्तदनुगता जनानाः कुगुरूक्तकुशाशनमयानुष्ठानानि पप जैनसमया मात्राणं चेच्छन्तोऽपि तदुपायं नाशदिशमविसंविदानास्तथा नश्यन्ति यथा पाश एव पतन्ति, सुखार्थिनोऽपि बन्धमरणा| दिकदर्थनादुःखान्यनुभवन्ति । एवं लौकिकमिथ्यादृष्टयः सौगतशैवशाक्तजैमिनीयवैशेषिकादिमतानुगता वतिनो द्विजादयश्चरकपरिव्राजकत्रिदण्डिकयाज्ञिकादयस्तदनुगता नृपामात्यवणिगादयो वा किञ्चित्कैश्चिद्वैराग्योपदेशशास्त्रीतिजरा-1 मरणादिभवदुःखेभ्यो विभ्यतोऽपि तेभ्यः शरणत्राणदिशमजानानाः कुगुरूक्तकुशास्त्रोक्तिभिर्व्यामूढास्तद्दर्शितानि धर्मबुद्ध्या । कायागाग्निहोमकुदेवा पशुहोमवधमाघादिस्नानकुदानवृक्षारोपणकन्याविवाहादिमहारम्भमयानुष्ठानानि धर्मासाधनाद्वितथा नि कुर्वाणाः कर्मविपाकमृगयूपस्थापितपापबन्धपाशेष्वेव पतिता इहापि परत्र च स्वर्गापवर्गादिसुखार्थिनोऽपि जैनसमयप्रसिद्धभद्रकमहिषप्रागुक्तचारुदत्तसम्बन्धिच्छागादिबहुदृष्टान्तरनन्तभवदुःखततिसन्तापमेव लभन्ते । केचिच्चात्युग्रतपोऽनु ठानोगाभ्यासादिभिः कानिचित् स्वर्गराज्यादिसुखानि प्राध्यापि भवदुःखेभ्यो न मुच्यन्ते एव । तदुक्तं श्रीसूत्रकृदङ्गेMoजइवि अनिगिणे किसे चरे, जइवि अभुंजई मासमंतसो। जे इह मायाइ मिजई, आगन्ता गम्भा यणंतसो ॥१॥ इति कापञ्चमो दृष्टान्तदाान्तिकयोजनया नरप्रकारः ५। A अथ च यथा मासाहसपक्षिणो रसनेन्द्रियवशाः परिणामविरस यथा क्रियां विदन्तोऽपि आमिषगृद्ध्या प्रसुप्तस्य मृगारेलार्विकसितमुखस्य दंष्ट्रान्तरामिषलवान् शीघ्रं चञ्च्वाऽऽकृष्य तर्वादिनिविष्टा मासाहस मासाहसमिति ब्रुवाणा भक्षितमांसाः पुनःपुनस्तथाकरणादविरमन्त एकदा मृगारिमुखयन्त्रनिपीडिताः सुखार्थिनोऽपि मरणादिदुःखं भजन्ते । तथा पार्श्वस्था उपलक्षणात् कुशीलादयो लोकोत्तरदृशोऽधीतश्रुतजिनागमादिभिः प्रमादाद्भवदुःखजालनिपातहेतून् विदन्तोऽपीन्द्रिया | 000OOOOOOOOOOO 000000000 ATTERTAINMEANIBANDHAama Jain Education in all For Private & Personel Use Only Jiohidainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy