SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ माणतया तत्सुखास्वादरसिका नोड्डीय स्वैरं यान्ति, माजीरादिभिया पञ्जर एवं प्रविशन्ति तिष्ठन्ति च। परं कीडमांसा-5 दनादिपापं न कुर्वते, आहारभूषणलालनक्रीडनादिसुखं चेहानुभवन्ति । केचित्तु श्राद्धसंसर्गादिना विदितादृतकियत्श्राद्धधर्मेण शत्रुञ्जयमृतशुकजिनाक्षतफलपूजाकारिशुकयुगलादिवत्काश्चित्सुगतिमपि प्राप्य सुखार्थिनः सुखमनुभवन्ति। अपरे त्वविदितश्राद्धधर्मा अपि विशेषपापाकरणाद्विशेषदुःखं नानुभवन्ति, तथा केचिद्गृहिणो विज्ञातप्रतिपन्नकियच्छ्राद्धधर्मा | अपि विषयगृद्धिं त्यक्तमशक्नुवन्तः कलत्रपुत्रादिमोहबन्धनैः पूर्वमसद्भिरपि आशामात्रेण बद्धं मन्यमानाः पश्चाच्च सद्भि रपिच्छेत्तुं शक्यैरप्यसात्त्विकप्रकृतितया विषयतृष्णया बद्धा गार्हस्थ्यपञ्जरवासनियन्त्रणामनुभवन्ति, ततो निर्गन्तुं शक्नुवन्तोऽपि परीषहादिभ्यो बिभ्यतस्तमेवाध्यासते नतु यतिधर्म प्रतिपद्यन्ते सुखार्थितया, कियत्प्रतिपालितसम्यक्त्वस्थूलप्राणातिपातादिविरतिसामायिकाद्यनुष्ठानरूपमध्यमश्राद्धधर्माद्विशेषमहारम्भाधकरणाच्च प्रेत्य सौधर्मादिकल्पादिसुखमनुभवन्ति, श्रीवीरजीवनयसारादिवत् । केचित्तु विशेषश्राद्धधर्मानुष्ठानादिरहिता अपि विशेषारम्भादिपापान्यकृत्वाकियद्दानादिभिर्धनसार्थवाहादिवन्मनुष्यादिभोगसुखान्यप्यश्नुवते । इति द्वितीयो धर्मवद्गृहस्थप्रकारो, नरप्रकारश्चाष्टम इति ८२। अथ यथा करिण उत्तमप्रकृतयो १, राज्यश्रियं समलङ्कुर्वते २, सुलक्षणाश्च तां वर्धयन्तस्तां खं च महिमप्रौढिमारोपयन्ते ३, उत्तमानेव चाहारानाहरन्ति ४, राजतल्लोकैश्च पूज्यन्ते ५, रक्ष्यन्ते च ६, सदलङ्कारादिसुभगाश्च श्लाघ्यन्ते सर्वैः ७, प्रायो नियन्त्रिताश्च भवन्ति ८, रणादिषु शौण्डीर्यशालिनो न पश्चादपनामन्ति ९, जयं च प्राप्नुवन्ति १०, सरोनद्यादिषु सम्यग्मजन्तो यथेष्टं विमलं जलं पिबन्तश्च तापतृष्णादिरहिताः शीतिमसम्पदं भजन्ते ११, स्वभाउ.१९ 16 DO9000ोसली @@@@OO SONGSCOOOOOO Jan Education For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy