SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ - 0000000000000000000 दरपूर्तिमात्रसुखाभिलाषिणः परसन्तापनजपारत्रिकदुःख निरपेक्षास्तथा तथा सुखार्थितयापि कुकर्मसु प्रवर्तमाना इहापि सर्वजनगर्हणीयाः परत्र दुर्गतिदुःखान्यनुभवन्तीति द्वितीयदृष्टान्तदाान्तिकयोजना । __ तथा यथा झपा मत्स्या रसनेंद्रियसुखलाम्मट्यात् स्वोदरपूरणमात्रार्थप्रवृत्तयः स्ववपुमहत्त्वबलगर्विता अल्पबलस्वकुलकस्यापि भक्षणपापेन सप्तमनरकावधि दुःखं लभन्ते, इहाप्याहाराद्यर्थ प्रमत्ता भ्रमन्तो धीवरजालपतिताः कदर्थ्यन्ते, प्रौढमत्स्यान्तरैरपि भक्ष्यन्ते च । तथा नियोगिनो वृपव्यापारिणः स्वामिवलगर्विताः शिष्टधनिलोकच्छलान्यन्वेषयन्तः स्वविषयसुखमहत्त्वादिसाधनार्थ स्वस्वकीयविषयसुखसाधनाद्यर्थं स्वामिरञ्जनाद्यर्थ च धनोत्पत्तये लश्चाग्रहणादिशिष्टलो-16 कदण्डनसन्तापनादि विदधते, चौरसमूहग्रामघाताद्यपि कुर्वते, नृपानप्युपायैर्घातयन्ति चाणाक्यवत् । विषादीनि नृपादीनामपि ददते, युद्धादीनपि सर्वान् महारम्भान् कुर्वते कारयन्ते च । एवं पापैः काले इहापि नृपदण्डचारकक्षेपनिगडादिवन्धताडनात्तड्वाधामरणकुटुम्बधरणप्रभृतिनानापराभवादिकदर्थनां सहन्ते, अभिनवराजमान्यभूतव्याभिला विनियोग्यन्तरैः पिशुनैरपि च पराभिभूयन्ते, प्रतिपक्षसचिवेन कल्पकमन्त्रिवत् , सुबन्धुसचिवादिभिश्चाणाक्यादिवत् , लावररुचिद्विजादिभिः शकटालादिवत् , सम्प्रत्यप्यनुभूयमानबहुपिशुनमच्यादिवच्च । प्रेत्य च विविधदुर्गतिपातानन्तभव भ्रमणादिदुःखानि प्राप्नुवन्तीति दृष्टान्तदान्तिकयोजनया तृतीयः प्रकारः ३। | अथ च यथोरगाः स्वभावादपि करकोपनाभिमानप्रकृतयः पदस्पर्शादिना स्वल्पकारणेनाप्यभिमानवत्तया सजाहातकोपात् स्वेच्छया चापरानुत्तमनरान् दंशं दंशं कदर्थयन्ति मारयन्त्यपि च । आहाराद्यर्थमपि भेकोन्दरादिलघुपक्षि - Jain Education Menit For Private & Personel Use Only Brjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy