________________
मुनिसुन्दर सू० वि०
॥ १०६ ॥
मादयोऽपि विभक्तेश्च प्राकृतत्वालोपे सुखार्थिनोऽपि अज्ञानमोहपारतन्त्र्येतरक्रियमाण कर्तव्यवशात् कुगतौ सुगतौ च गताः सन्तो दुःखिनः सुखिनश्च भवन्ति । तथा नराणामेव विशेषतो धर्मसाधनार्हतादियोगात्तन्मुख्यतया व्यपदेशान्नरा अपि केवलं सुखार्थिनोऽपि अज्ञानमोहादिवशाऽवशतया कृतैः स्वकर्मभिर्दुःखिनः सुखिनश्च भवन्ति । ते च द्वितीय ॐ गाथोक्ता नास्तिकादय एकादशेत्येकादशप्रकारा इति समुदायार्थः । अथ प्रत्येकं दृष्टान्तदाष्टन्तिकयोजनया गाधयोॐ र्द्वयोर्भावना । तथाहि — शलभाः पतङ्गाश्चक्षुरिन्द्रियवशात्तेजोमात्रविमोहिताः परिणाम हिताहितविचारशून्यतया सुखार्थिनोऽपि झटित्येव दीपाग्नौ पतन्तो दाहदुःखमेव लभन्ते । तथा नास्तिकाः पञ्चप्रकारविषयसुखलाम्पट्या दैहिकसुखमात्रार्थिनः पारत्रिक सुखसंभारप्राप्त्युपायविमर्शविमुखा नरकदुःखाद्यवगणय्य सुखार्थिनोऽपि नास्तिकवादाग्नौ पतिता (6) अनन्तदुःखदाहभाज एव भवन्तीति प्रथमा दृष्टान्तदाष्टन्तिकयोजना १ ।
Jain Education
उप
यथा च मशका उपलक्षणाद्देशादयश्च मनुष्यसिंहगजवृषभादीनां दंशै रुधिरपायितया परोपतापिन्यैवाजीविकया जीवन्तः कराघातादिना मरणाद्यायतिदुःखमविमृश्य दशन्तस्तेनैव म्रियन्ते, इह परत्र च दुःखिनश्च भवन्ति । एवं ८ वलपिंडोलगत्ति - बलात्कारभिक्षाजीविनश्चारिककंग क तृतीयप्रकृतिक कुष्ठ व्याधिक नौरसिकमन्मनमुण्डकसर्पघरादय | लक्षणान्चौरग्रन्थिच्छोटकपिशुनबन्दिग्राहक मार्गपरिमोषिदाम्भिकप्रभृतयश्च नित्यं परच्छिद्रान्वेषिणः सततं परद्रव्याभिलाषिणो विवाहधर्मसाधर्मिक वात्सल्यादिहर्षकार्येष्वन्यथापि वा शिरउदरस्फोटादिकुकर्मभिः सततं परधनापग्र हणाद्युपायैकचिन्तारौद्रार्तदुर्थ्यानोपार्ज्य माननरकाद्यई पापबन्धविविधपैशुन्यादिकुकर्मभिश्च परोद्वेजकप्रवृत्तिजीविनः स्वो
300006
For Private & Personal Use Only
9990000956
0000
उपदेशर तरंग ३
॥ १०६ ॥
5) ww.jainelibrary.org