________________
Jain Education In
न्यमध्यमोत्तमा वृक्षाः स्युः । सर्वर्त्तुफलवत्त्वादिना दिव्यप्रभावात् सर्वरोगविषाद्यपहारित्वमनश्चिन्तितरूपकरणजरावलिपलितनाराचक्षुरादिदानादिबहुशक्तिप्रभावयथौ (वदौ) षधीपत्रफलपुष्पवत्त्वादिना सर्वप्रागुक्तवनेभ्योऽधिकमहिमसौभाग्यलतातर्वादयस्तेषु स्युः । यद्यपि क्वचिद् गिरिवनादिष्वपि समहिमतरुलतादयः स्युस्तथापि प्रायस्तेषां देवताधिष्ठितत्वात्सुरॐ वनमध्य एव गणना । नन्दनवनादिषु तु सुरद्रुमा बहवो बहुविधसर्वाङ्गीण सर्वफला भवन्ति, एवं चारित्रधर्मा अपि पलाशवकुश कुशील निर्ग्रन्थस्नातकादिविचित्रभेदमया विराधितानां श्राद्धयतिधर्माणां मिथ्यादृग्धर्मेष्वेव सङ्गृहीतत्वाॐ दविराधिता जघन्यतोऽपि सौधर्म कल्पर्द्धिसुखफलानि ददते, प्रायः श्राद्धधर्मजघन्यसुखफलेभ्योऽधिकानि । प्राग्भवे © आचाम्लवर्द्धमानतपःकारिनिजतेजोऽल्पित सर्व सौधर्मेन्द्रसभा समूह तेजस्त्व द्वितीय कल्पागत सुरादिवत् । द्वादशकल्पग्रै© वेयकादिसुखानि मध्यमानि, उत्कर्षतस्त्वनुत्तरविमानसुखानि सांसारिकाणि संसारातीतं च मोक्षफलं ददते । तस्मात्ते सर्वशक्त्योत्तरोत्तरा आराधनीयाः । अत्र च गतिसङ्ग्रहगाथा - मुच्छिमनिरिभवणवणे, पणिदिसहसारिमिच्छनरवंभे । अच्चु अ सहअभवा, गेविजे मुणि सिवे धम्मा ॥ १ ॥ अस्याः स्वकृतगाथायाः किञ्चिद्वयाख्या - संमूर्च्छिमास्तिर्यञ्चस्तेपामाद्यॐ गुणस्थानस्यैव संभवात् मिथ्यातपोऽनुष्ठानादिनाऽकामनिर्जरादिना वा उत्कर्षतो भवनपतिव्यन्तरेषूत्पद्यन्ते । पल्योप मासंख्येयभागायुष्ध्वेव नतु ज्योतिष्कादिषु तेषां जघन्यतोऽपि पल्योपमाष्टमभागायुकत्वात् । पश्ञ्चेन्द्रियतिर्यञ्चः संमूच्छि मानां प्रागप्युपादानाद्गर्भजाः मिथ्याविनां ब्रह्मलोकादधिकगतेरभावात् । जातिस्मृत्यादिनाऽतिशयज्ञान्युपदेशादिना वा वोधिप्राप्तौ जैनतपोऽनुष्ठानादिनोत्कर्षतोऽष्टमे सहस्रारे कल्पे गच्छन्ति, अरवन्दर्षिवोधितश्रीपार्श्वजीवगजादिवत् । ॐ
For Private & Personal Use Only
jainelibrary.org